पृष्ठम्:विमानार्चनाकल्पः.pdf/317

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षटलः 75 285 विना, शयनमेव कुर्यात्। शयने स्थानकासने नकारयेत् । कौतुकं स्थितमौत्सवमासीनं कौतुकमासीन मौत्सवं स्थितं वा कारयेत् ।। स्नन्पन्नबलिबेरं च सर्वत्र स्थितमेव कारयेत् । अथतारादीनां कौतुकबेराणि संकराणि चेत् प्रा० अवताराणां, पञ्चमूर्तीनां च, कौतुकबेराणि अन्योन्यसंकरेण स्थापयेच्चेन्महत्तरोदोषो भवति । तद्दोषशमनार्थं महाशान्तिं हुत्वा यथास्थाने स्थापयेत् । कौतुकादीनां पुनःप्रतिष्ठासमये सांकर्यापि दोषाभावः पुन:प्रतिष्ठाकाले कौतुकस्नापनोत्सवबलिबेराणा मन्योन्यसंकर- स्थापनं निर्दोषमित्याचष्टे मरीचिः। इति श्रीवैखानसे मरीचिप्राेक्ते विमानार्चनाकल्पे आचार्यसंकर योगभोगादि संकरविधिर्नाम चतुस्सप्ततितमः पटलः |७४|| अथ पञ्चसप्ततितमः पटलः अद्भतोदयनिमित्तम्, तत्र शान्त्यकरणे दो० अथाद्भुतशान्तिं व्याख्यास्यामो - नराणां पापबाहुल्या दपराध- बाहुल्याच्च्, देवास्सृजन्त्यद्भुतानि तेषु दृष्टेषु सद्यः शान्तिं कुर्यात् अज्ञाना- दर्थलोभाद्वा न कुर्याच्चेत् कन्नराधकयो र्ग्रामस्य च महद्भयं राज्ञो राष्ट्रस्य च क्षोभश्च जायते ।

शान्तिकरणे कालः

तस्मात् दादशाह्राभ्यंन्तरे शान्तिं कुर्यात् । द्वादशाहातीते महाशान्तिं हुत्वा वैष्णवान् संपूज्य शक्तितो दक्षिणां दत्वा आरभेत्। मासे अतीते महाशान्तिं सप्तहं हुत्वा विप्रशतं भोजयित्वा देवमनुमान्य कुर्यात् । घेण्मासातीते भगवान्नरमेत । तस्मात्सर्वप्रयत्नेन. शांतिं आरभेत ।