पृष्ठम्:विमानार्चनाकल्पः.pdf/315

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पडलः 73 28A कौतुकादीनामंगहीने कर्त० अंगादिस्वरूपं च कौतुकादीना मंगहीने सतेि (कर्तव्यम्) उदर बक्षः कंठशिरांसि महांगानेि, पादहस्तबाह्ववोंगानि, अंगुलीकर्ण नासादयः प्रत्यंगानि, अभ्बरा sऽभरणाऽऽयुधशिरश्चक्र पीठ प्रभामंडलानि उपांगानि, इत्याचक्षते। उपाङ्गहीने प्रा० तस्मादुपांगे हीने पूर्ववत् कुंभं संसाध्य तच्छक्तिं कुंभे समावाह्य तद्विंबस्य पुनस्संधानंकृत्वा जलाधिवासादीनि कृत्वा वास्तुहोमं हुत्वा पञ्चगव्यैः कुशोदकैश्च संस्नाप्य सप्तभिः कलशैः संस्नाप्य कुंभस्थां शक्तिं ताद्विंबे समावाह्मार्चयेत् । प्रत्यङ्गहीने प्र० प्रत्यंगे हीने तच्छक्तिं महाबेरे समारोप्य बिंब मुद्धृत्य पञ्चगव्यैः प्रोक्ष्य तुल्यलोहेन संधानं कृत्वा जलाऽधिवासादीनि कृत्वा पुनः प्रतिष्ठां कारयेत् । अङ्गहीने. प्रा० अंगहीने तद्वेरं संधानयोग्यंचे त्तथैव कुर्यात् । अयुक्तं चेन्महांगे हीने च बेरंभूमौपिधाय तस्योपरि अंगहोमं हुत्वा महाशांतिं च हुत्वा तद्दिने अतीते बिंबमुद्धृत्य पञ्चगव्यैः प्रक्षाल्य अग्नौ क्षिपत्वा त्रिशुद्धिं कृत्वा राजतंचेत् द्विर्दग्ध्वा रौक्मं चेत्सकृद्दग्ध्वा तद्रव्येण पूर्ववत् बिम्बं कृत्वा पुनः प्रतिष्ठां कारयेत् । पटादावालिख्याऽर्चितस्य जणिं चेत् क० पटे कुड्ये वा; आलिख्याऽर्चितंबेरं जीर्णं चेत् तच्छक्तिमर्कमंडले समारोप्य नवीकृत्य पुन:प्रतिष्ठामाचरेत् । इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे कौतुकादि जीर्णबेरपरित्यागविधिर्नाम त्रिसप्ततितमः पटलः ॥७३॥