पृष्ठम्:विमानार्चनाकल्पः.pdf/308

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

274 विमानार्चनाकल्पे महाशास्त्रे अथ एकसत्पतितमः पतलः पटल: महाबेरविमानयोः पतनादौ कर्तव्यम् अथ पुनर्बालालयविधि वक्ष्ये - महाबेरे विमाने च, पतिते, जीर्णो छिन्ने, अंग होने, अशनिहते, वाताहते, क्षीणवर्णे, गर्भालयस्थलभ्रंशे, स्थानगर्भपीठविनाशे चंडालाद्यस्पृश्यप्रविष्टे वा, अचिरादेव बालालये देवं प्रतष्ठापयेत्।

बालालये अर्च्येमानोपि स्थानसंकते, च्ंडालाद्यशुच्यधिष्ठिते, नद्यादिभिः स्थान नाशो वा सति, अन्यत्र मनोरमे यथेष्टदेशे पूर्ववत्कर्षणादि पुनस्संस्कारं कृत्वा, प्रथमे प्रथम, द्वितीयं वा, बालालयं कृत्वा तद्विंबमानीय प्रतिष्ठाप्य, पश्वान्मूलालयं कुर्यात्।

विमानबाह्यस्थाङ्गादि हीने तृणादिना भिन्ने च कर्तवम्

' बाहो चाऽड्रोपांगहीने तृणगुल्मवल्मीकमाक्षिकपादपाद्यै भेदे सति अत्र बालालयस्थानविना तद्धिमानशक्तिं तदंगदेबाँष्च महाबेरे समालोप्य नवीकृत्य विमानप्रतिष्टोक्तविधिन विमान प्रतिष्ठा कारयेत्।

विमानध्रुवयो र्विनाशे कर्तव्यम् विमानध्रुवयोर्विनाशे कौतुकादीन्बालागारे कालविज्ञापनं प्रार्थनामंत्रं च विना प्रथमतरुणालयप्रतिष्टोक्तविधिन प्रतिष्ठाप्य अर्चयेत्। तस्य काले अतीते न दोषाय भवति ।

संस्काराङ्गहानौ कर्त० यद्यत्संस्कारहानि रंगहानिश्च भवति, बालाऽगारं कृत्वा तत्तत्संस्कारं कृत्वा तस्योपरिसन्धार्न कारयेत्।

कॉतुकादि विनाशे कौतुकादीनां च विनाशे ध्रुवार्चाबेरे तद्विमाने च जीर्णादि दोषसंयुक्ते पुनः बालागारं संकल्प्य यथा लाभमानेन दारवं बिम्बमाहृत्य,