पृष्ठम्:विमानार्चनाकल्पः.pdf/307

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटल: 70 273

विष्णुगायत्र्या जुहुयात् । सर्वदेवत्यं पारमात्मिकं च जुहुयात् । एवं महाशांतिरित केचित् वदंति ।

पक्ष्चादवनाराणां तत्तन्म्ंत्रं प्रत्येकमष्टोच्छ्र्श्शतं हुत्वा न्रुत्तगेयवाध्यैः रात्रिशेषं नयेत् । प्रभाते स्नात्वा, देवंप्रणम्य प्रणवेन बोधयित्वा अभिवन्द्य अपराधशतं, सहस्र मयुतं, असंख्येयं च, 'करुणाब्धे क्षमस्वे' ति याचेत । पूर्वस्त्रमाल्यादीनेि व्यपोह्य अन्र्यलंकृत्य सर्ववाद्यघोष्युतं शाकुनसूतेन तोयधारापुरस्सरम् आचार्यः पुरतोगच्छेत् । आचार्योदेवपादं स्प्रुशन् वैस्णवं, विष्णुसोओक्तं पुरुषसूक्तं, आत्मसूक्तं, जप्त्वा पूर्ववहेवं ध्यात्वा ध्रुवबेराच्छक्तिम् प्रणिध्यां निवेशयेत् | ह्रुदये समरोपिताचेत् ह्रुदयात्प्रणिधिजले समावाह्य पोओर्वरदक्षरन्यासं क्रुत्वा आवाह्य तदालयपरिषहेवान् पोओर्ववदावाहयेत्| पादौ प्रक्षाल्य, अभ्यन्तरं प्रविश्य पुण्याहं वाचयेत्। आचार्यादिभ्यो दक्षिणां दद्यात्। अग्निं पीरस्तीर्य अन्तहोमंहुत्वा पश्चादुत्सवं स्नपनं च कारयेत्। अशक्तश्वेत्केवलस्नपने कारयेत्। कूचदिावर्चनाहीने प्रा० अर्चनं हीनं चेत् अर्चनाहीनप्रायश्चित्तं कारयेत् । वर्षेऽतीते प्रा० वर्षाऽतीते च एतमेव संस्कारं कृत्वा पुनस्थापनमाचरेत् । अवताराणां पृथगेव कारयेदित्येके । तेषां पुनः प्रतिष्ठाचेत् तत्तत्प्रधानहोमं कारयेदित्येके । इति श्रीवैखानसे मरीचिप्रोते विमानार्चनाकल्ये भृगूढुतप्रायश्चित्तविधिर्नाम सप्ततितमः पटलः ॥७०॥