पृष्ठम्:विमानार्चनाकल्पः.pdf/306

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

272 विमानार्चनाकल्पे महाशास्त्रे बालालये सति कूर्चस्थापनादि बालालयं चेदर्चापीठे कूचेंसन्यस्य हृदयात्प्रणिध्यां निवेश्य कूर्च बिंबवन्मनसाऽक्षराणि तत्स्थानेस्मृत्वा सन्यस्य आवाह्य अर्चयेत् । स्नपनादावभ्युक्षणमेव कारयेत् । मासादूर्घमन्यकूर्चास्थापनम् मासादूर्वं तत्कूर्चम् व्यपोह्य अन्यत्कूर्च सन्यस्य आवाह्य अर्चयत् । सुकाले कर्तव्यम् सुकाले बिंबमुसृत्य, आम्लाचैस्संशोध्य, पुण्याहं कृत्वा अस्पृश्यै स्स्पृष्टैसति जलाधिवासादीनि कृत्वा कालापेक्षमकृत्वा अंकुरार्पणं कृत्वा आलयाभिमुखे दक्षिणे वा मण्टपं कूटं प्रपां वा कृत्वा तन्मध्ये पौण्डरीका ऽग्निकुण्डं फुल्बा तदुत्तरे बास्तुहोमं हुत्वा बिंबस्याऽतीवपार्श्वतः पर्यग्निं कृत्वा संशोध्य पौण्डरीकाग्नेः पश्चिमतो बिंबार्धाधिकायामविस्तारां भागोन्नतां यथालाभोन्नतां वा धान्यैः वेदिं कृत्वा अण्डजादीनि पञ्चवत्राण यास्तीर्य चतुर्दश कलशैः संस्नाप्या पुण्याहान्ते प्रतिसरं बध्वा कौतुकस्नष नोत्सवबलिर्बराणि देवीश्वसहैकशयने शाययेत् । अवताराणां शयनं पृथगेव विधीयते । अब्लाग्निं परिस्तीअर्थ,परिषिच्य, हौत्रं प्रशंस्यदेवेशं देव्या, अव ताराणां च दक्षिणग्रणिधौ तदालयगतपरिष देवनुत्तप्रणिधी च समावाह्य आवाहनक्रमेण निर्वापं कृत्वा आज्याहुती यजेत् । शान्तस्वरूपम् वैष्णवं विष्णुसूक्तं पुरुषसूक्तं, विष्णुगायत्रीं द्वादशाक्षरं, प्राजापत्यं, मिंदाहुतीं, विच्छिन्नं च, जुहुयात् । एतत् शान्तिहोम इत्येके । मासषट्केऽतीते महाशान्तिः, तत्स्वरूपं च षण्मासे अतीते महाशान्तिं जुहुयात् । लाजतिल शक्तुभिराज्यमिश्रितैः वैष्णवं, विष्णुसूक्तं, प्रत्येकं द्वादशाष्टपर्यायतो जुहुयात्। अष्टोत्तरशतं पम श्वेतं, रक्तं वा, अलाभे बिल्वपत्र वा, घृताप्लुतं,