पृष्ठम्:विमानार्चनाकल्पः.pdf/305

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटल: 7) 271 वैष्णवान्तं तत्स्थानाधिपदेवत्यं च जुहुयात् । आलयाभ्यन्तरे महावाताद्याभिभवे प्रा० आलयाभ्यन्तरे सर्वत्र महावाताऽतिवृष्ट्रिरादिभि रभिभूते देवं कलशैः ब्राह्मणान् भोजयेदित्याह मरीचिः । प्रायश्चित्तविधिर्नाम एकोनसप्ततितमः पटलः ॥६९॥ अथ सप्ततितमः पटलः भयरक्षार्थ निष्कृतिः अथ भयरक्षार्थं निष्कृतिं वक्ष्ये-र्चौरैः शत्रुभिः परचक्रभयाद्वा ग्रामसंकुले सति भयरक्षार्थ कौतुकस्नपनोत्सवबलिबेरलौहिकप्रतिमानां देवीनां च तिरोधानं कारयेत् । तत्प्रकारः गुप्ते शुचौ देशे अवटम् खनित्वा सिकता:प्रक्षिप्य उपरेि कुशानास्तीर्य अवटे महीं देवीमभ्यच्र्य "आपोहिष्टे"तेि प्रोक्ष्य आचार्य: अर्चको वा यजमानेन भक्तैस्सर्धं देवागारं प्रविश्य देवं प्रणम्य "यावत्कालं भयमस्ति ताद्धरण्या सह शयने शयीथा जनार्दने" ति देवेश मनुमान्य बिम्बस्थां शक्तिम्

ध्रुवबेरे समारोपयेत्। बेराभावे हृदये समारोपयेत्। "परं रंह" इति अवटेSप्रमादं संयस्च "यद्वैष्णव"

मिति प्राक्च्छिरसः शाययेत् । अवटं सिकताभिः मृदा वा पूरयित्वा अवटाच्छिद्र सुदृढ कारयेत् । तत आलये कौतुकादिस्थाने कूर्चस्थापनादि पश्चादभ्यन्तरं प्रविश्य देवं प्रणम्य जीवस्थाने पञ्चदशदर्भैः ग्रथितं द्वादशाडूलमात्रं कूर्च सन्यस्य ध्रुवबे रात्कूर्चे समावाह्य अर्चयेत् ।