पृष्ठम्:विमानार्चनाकल्पः.pdf/303

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्लॅ: 69 269 महाबेरेस्वेदादि दर्शने प्रा० महाबेरेहि स्वेद्रुधिरस्रावरोदन जल्प हास धूमादिषु सत्त्सु आलया ऽभिमुखे पौण्डरीकाऽग्निं साधयित्वा वैष्णवं विष्णुसूतं पुरुषसूक्तं ईङ्कारार्दीश्च हुत्वा देवंकलशैस्संस्नाप्य अभ्यर्च्य हविःनिवेद्य ब्राह्मणान् भोजयित्वा वैष्णवान् संपूज्य आचार्यदक्षिणां दद्यात् । वल्मीकादि सम्भवे प्रा० वल्मीकतृणक्रिमिकीटकवकायुद्रवे सति पूर्ववच्छन्तिं हुत्वा ब्राह्मणान् भोजयित्वा देवं बालालये प्रतिष्ठाप्य नवीकरण कारयेत्। विमानेऽकारणाद्रिने प्रा० । भोजयित्वा, वैष्णवान् सम्पूज्य, देवं बालाऽऽलये प्रतिष्ठाप्य, अालयादि सर्वत्र नवीकरणं कृत्वा, महाप्रतिष्ठां कारयेत् । अशनिष्हते महामक्षिकयुते च विमाने प्रा० अशनिहते महामक्षिकादियुते च देवं कलशैः संस्नाप्य, विशेषपूजां कारयेत् । आकाशे प्रतिसूर्यदर्शने प्रा० आकाशे प्रतिसूर्यदर्शने वैष्णवं, सौरं दशकृत्वो जुहुयात् । ਕਿਵੇ ਯo दिग्दाहे वैष्णवं, दिग्देवत्यं, आग्नेयं च जुहुयात् । उपलवर्षे प्रा०