पृष्ठम्:विमानार्चनाकल्पः.pdf/298

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2ंं64 विमानार्चनाकल्पे महाशात्रे

              वीथिमध्ये वर्षादिस्पर्शी प्रा०

वीध्यन्तरे वर्षधाराप्रवेशे तृणपांसुयुतवातस्य च देवेशं संस्नाप्य; वैष्णवं, दिग्देवत्यं, वारुनम्, वायव्यं, यद्देवाद्भश्च हुत्वा पुनरुत्सवं करयेत् ।

         उत्सवकाले कलहादौ प्रा०

उत्सवकाले कलहरुधिरस्रावेषु सत्सु वैष्णव माग्नेयं ब्रांहं रौद्रं दिनाधिदैवत्यं च जुहुयात् ।

        आलयाभ्यन्तरे श्त्रादिनामरणे प्रा०

आलयाभ्यन्तरे शस्राधैर्मरणे सति तच्छीघ्रमपहाय अब्जाऽग्नौ महाशांतिं तद्दिनाधिदेवत्यंच जुहुयात् ।

        वीथ्यां मरणसम्भवे प्रा०

बीथ्यांमरणादौ संभूते तच्छीघ्र व्यपोह्य शान्तिहोमं हुत्वा उत्सवं कारयेत्। एकनाडिका यामादर्वाक्कालंगतंचेपुनरूत्सवं कारयेत् ।

         अशीतिदण्डाभ्यन्तरे शवेसति प्रा०

आलयस्याऽसीति दण्डाभ्यन्तरे वीथ्यां शसति तत्रोत्सवं न कुर्यात्, कुर्याचद्राजराष्ट्रविनाशाय भवति, तस्माच्छीघ्रमपहाय, प्रायश्चित्तं महाशान्तिं पार्षदं च हुत्वा पुनरुत्सवं कारयेत् ।

        उत्सवमध्ये अन्योत्सवशुभकर्मकरणे प्रा०
   ध्वजारोहणदूषं तीर्थदिनात्पूर्वं अन्योत्सवं शुभकर्माणि न कुर्यात्;

कुर्यादाभिचारिकं भवति; तद्दोषशमनार्थं वैष्णवं विष्णुसूक्तं पुरुषसूक्तं यार्षदं च हुत्वा ब्राह्मणान् भोजयेत् ।।

         तीर्थदिनात्पूर्वरात्रौ प्रतिसरबन्ध शयनाऽभावे प्रा०
तीर्थदिनात्पूर्वरात्रौ प्रतिसंरबंधने शयने वा हीने वैष्णवं श्रीभूमिदेवत्यं

सौदर्शनं च हुत्वा ते समाचरेत् ।

           तीर्थस्नानकाले अतीते हीने बा प्रा०

तीर्थस्ननकाले अतीते हीने वा वैष्णवं वारुणं स्कंददेवत्यं च जुहुयात्।