पृष्ठम्:विमानार्चनाकल्पः.pdf/297

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलः 68

                                                               263
                  एतेषां पतने प्रा०

एतेषां पतने पूर्ववदुद्धृत्य स्नापयित्वा तत्तद्देवत्यं त्रैष्णवं च जुहुयात् ।। भूमौ पतिते अन्नाऽर्यपुष्पबलौ पूर्ववद्वलिमापाद्य, वैष्णवं च; बलिरक्षक देवत्यं च जुहुयात् ।

           यानात्पतितस्याऽङ्गहीने

यानात्पतिते हीनांगे पझान महाशांतिं हुत्वा; तच्छक्तिं ध्रुवबेरे समारोप्य कौतुकं, स्नपनं, बलिबेरं वा, अलंकृत्य; आवाह्याऽभ्यर्थीउत्सवं कारयेत् ।

             कौतुकादि बेराऽभावे

बेराभावे पात्रे रत्नं, सुबर्थं वा, निक्षिप्यआवाह्यअभ्यर्थेदिने दिने महाशान्ति महाहोमं च हुत्वा; उत्सवं कारयेत् । हीनाऽङ्गतङ्करं पुनस्संधानविधिना संधानं कृत्वा , पुनःप्रतिष्ठां कारयेत् ।

             नदीपर्वतसमीपे देवालयसत्त्वे

नदीसमुद्रपाश्र्वे, पर्वतपर्वे बा, विमानं यत्र दृश्यते तत्र ध्वजारोहणं- कृत्वा; तदालयं परितो, बलिदान, मुत्सवं च, कारयेत्, तत्समीपे ग्रामादी सति तत्र बलिदान मुत्सवं च, कारयेदित्येके ।

               गायकनर्तकयोः पतने

गातुर्ननृक्ष पतने श्रीदेवत्यं, वैष्णवं च, वादकनां पतने ब्राहं रौद्रं च, आचार्यादीनांपतने, संक्षोभे च, आर्ष, वैष्णवं च, ध्वजादीनां पतने ध्यानं, घारुणं, वायव्यं च, जुहुयात् ।

           उक्तकाले बर्षादिना उत्सवाड्करणे

वर्षधाराऽतिबाताऽनिपातविद्युलेखायुते काले देवेशस्य उत्सवंग ॐ कुर्याच्चेद् वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, श्रीभूमि देवत्यं चे, ल्वा; उत्सवं कारयेत् ।