पृष्ठम्:विमानार्चनाकल्पः.pdf/296

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

262

              विमानार्चनाकल्ये महाशास्त्रे

क्षिपेत् । देवस्य द्विगुणार्चने हीने, हविर्निवेदने च हीने, वैष्णवं, शांतिं हुत्वा द्विगुणमभ्ययं निवेदयेत् ।

                 उक्तहोमे हीने

यथोक्त होमे हीने वैष्णुवं, विष्णुसूक्तं पुरुषसूक्तं श्रयस्त्रिंशत्कृत्यो हुत्वा; यथोक्तं जुहुयात् ।

    चक्रवीशाऽमितानां कुंभदेवानांचाऽर्जुनं हविर्निवेदनं च हीनं चेत्;

वैष्णवं विध्नुसूक्त्तम् पुरुषसूक्तं वैष्वक्सेनं गारुडं सौदर्शनं च हुत्वा, पुनरभ्यक्र्य र्निवेदयेत् ।

               देवस्यालङ्कारे हीने

देवस्याऽलंकारे हीने वैष्णवं, श्रीदेवत्यं च, जुहुयात् ।

        अलङ्कारद्रव्येषु निर्माल्याऽनिर्माल्यविभागः

अलंकारद्रव्येषु पुष्पगन्धौद्वौ निर्माल्यौ भवतः तौहित्वा अन्यानि द्रव्याणि प्रक्षाल्य पंचगव्यैःप्रोक्ष्य तत्तद्रव्यै रलंकुर्यात् ।

      नृत्त गानस्तोत्र भक्तपरिवृतिच्छत्रपिञ्छादीनां हीने
 नृत्ते गेये च हीने वैष्णवं रौद्रम्स्तोत्रे हीने ब्राहं सारस्वतं; भक्तैः

परितोहीने वारुणं, वैष्णवं, वैष्वक्सेनं च, छत्रपिञ्छादैहीने वैष्णवं, सौम्यं; चामरादौ हीने वैष्णवं, हीरक्षकदेवत्यं च जुहुयात् ।

           देवस्य यानात्पतने

दैवेयानात्पातिते शीघ्रमुद्धत्य 'क्षमस्वे' ति प्रणम्य, शुद्धोवकै रभिषिच्य वैष्णवं, विष्णुसूक्तं पुरुषसूक्तं; दिनाधिदेवत्यं च, हुत्वा, पुनरुत्सवं कारयेत् ।

           चक्रवीशदिबिंबाभवे

चक्रबीश (श, मिता) शांतानां बिंबाऽभावे पृथक् पृथक् पात्रेषु समावाह्याऽभ्यच्यं , तत्तद्देवत्यंहुत्वा ; पक्षादुत्सव: कारयेत् ।