एतत् पृष्ठम् अपरिष्कृतम् अस्ति
26० विमानार्चनाकल्पे महाशास्त्रे
मेरीताडनहीने प्रा० भेरीताड़नहीने रौद्र, व्याहृतीश्च, हुवा, भेरीताडनं कारयेत्। ध्वजगरुडनिवेदनहीने, तस्य-मुद्रान्ननिवेदनहीने च च, हुत्वा, द्विगुणं निवेदेयत् । तस्य मुद्रान्ननिवेदनहीने वैष्णवं, ध्वाजं, गारुडं च, हुत्वा, वत्नेन यथोक्त मौद्विकं निवेदयेत् ॥ ध्वजस्य चौरापसरणादी प्रा० ध्वजदंडे चोराद्यपहृते हीने अग्निद्ग्धे अशनिनोत्पातिते च वैष्णवं
, वायव्य, माग्रोयम, इंकारादीन् गारुडं, ध्वाज च, हुत्वा, ध्वजदण्डमारोप्य;
पूर्ववत् ध्वजमारोप्य, उत्सवशेषं कारयेत् । ध्वजपटपतने प्रा० ध्वजगरूडे पतिते ब्राह्मं, प्रजापत्यं, सौरं, सौम्य, आग्रेयं, व्याहृतीश्च, हुत्वा, पूर्ववत् घण्टासहितमारोपयेत्। ध्वजगरुडस्य वर्षादिबाधे दोषाभा० ध्वजगरुडस्याऽऽकाशाचारित्वात्तस्यवर्षाऽऽतपबाधो न दोषाय भवति । नियतकाले उत्सवाकरणे प्रा० कालोत्सव मुक्तमासे न कुर्याचेत् अन्यस्मिन् मासे तहिने च अवभृर्थ संकल्प्यः उत्सवंकारयेत् । अस्य प्रायश्चित्तं वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, ध्वाजं, गारुडं च, दशशो हुत्वा; वैष्णवान् संपूज्य; आचार्यदक्षिणां दत्वा; उत्सवमाचरेत्। . उल्सवादी स्नपनहोने प्रा० उत्सवादौ स्नपनेहीने वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, वारुणं च , हुत्वा, शुद्धोदकै रभिषेचयेत्।