पृष्ठम्:विमानार्चनाकल्पः.pdf/290

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

256

                                                 विमानार्चनाकल्पे महाज्ञाने
                                                   बल्यकरणे प्रा यश्चित्तम्
                  प्रातःकाले बलिभ्रमणे हीने वैष्णवं सोरं, सौम्यं, प्राजापत्यं च,
                  जहुयात् ।
                  प्रदक्षिणे हीने अधिके च वैष्णवं,गारुडं, च हुत्वा; बलिभ्रमणं
                  कारयेत् ।
                  प्रातर्बलोहीने मध्याह्ने द्विगुणं, मद्यह्ने च हीने सायं त्रिगुणं कुर्यात् ।
                  एकाहे हीने नित्याग्नौ चुल्यां वा अग्निपरिस्तीर्य वैष्णवं, विष्णुसूक्तं,
                  पुरुषसूक्तं दिंग्देवत्यं च, हुत्वा; विधिना प्रदक्षिणं कारयेत् ।
                  द्व्यहे द्विगुणं, त्र्यहेत्रिगुणम्, एवं द्वादशांहान्तं वर्धयेत् ।
                  द्वादशाहे अतीते अग्निपासनमादय; वैष्णवं विष्णुसूक्तं, पुरुषसूक्तं
                  श्रीभूमिदेवत्यं ब्राहं रौद्रं दिग्देवत्यं च हुत्वा; पूर्ववत् बलिंभ्रमणं कारयेत् ।
                  मासेऽतीते पौण्डरीकाग्नि मादाय वैष्णवं, विष्णुसूक्तं पुरुषसूक्तं पारमात्मिकं,
                  ईकारादीं स्तदालयगतपरिषद्देवत्यं च हुत्वा; तथैव बलिभ्रमणं कारयेत्।
                  द्विमासे द्विगुणं, त्रिमासे त्रिभुणम्एवं एव साम्वत्स्रन्तम् वर्र्दयेत् । संवत्सरे
                  अतीते देवाभिमुखे, दक्षिणे वा, सभ्याऽग्निं संसाध्य; वैष्णवं, विष्णुसूक्तं,
                  पुरुषसूक्तं, श्रीभूमिदेवत्यं, सर्वदवत्यं च, जुहुयात् । आचार्यदक्षिणां दत्वा;
                  बल्युद्धरणं कारयेत् ।
                  अन्नबलौ भूमौ पतिते भिन्ने जीर्णे च पूर्ववत् बलिमापद्यह,वैष्णवं,
                  गारुडं प्राजापत्यं च हुत्वा; प्रदक्षिणं कारयेत् ।
                  बल्युद्धरणकाले येनकेनचित् विग्न्ष्येत् सौरं सौम्यं वैष्णवं च हुत्वा,
                  पुन रारभेत । पात्रालाभे हविः पात्र मादाय वैष्णवं जुहुयात् ।।
                  प्रमाणहीने अन्नबलौ वैष्णवं प्राजापत्यं च जुहुयात् ।।
                  देवस्यालंकारहीने श्रीदेवत्यं, छत्रपिञ्छादीनामलाभे वारुणं,
                  चामरादीनामलाभे वायव्यं, दीपालाभेच आग्नेयं वैष्णवं च, प्रत्येकं व्याहृत्यन्तं
                  जुहयात् |
                  दोषदुष्टहविर्निवेदन प्रायश्चित्तं कारयेत् ।
                  इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे नित्यार्चनप्रायश्चित्त
                  (बलि)विधिअर्नामि षट्षष्टितमः पटलः॥६३॥