पृष्ठम्:विमानार्चनाकल्पः.pdf/289

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

टल: 88 255 निवेदिते, देवंशुद्धोदकैस्संस्नाप्य; वैष्णवंविष्णुगायत्रीं, श्रीभूमिदेवत्यं च, अष्टोत्तरञ्शतं हुत्वाः द्विगुणं निवेदयेत् । महाहविष्येतैस्संयुक्ते सति, तत्र पुरुषाशनमात्रं व्यपोह्यः भस्मजलैः कुशेन आपोहिरण्यपवमानैः प्रोक्ष्यः तन्निवेदयेत्। प्रायश्चित्तार्चनार्थं अर्कोदयात्पूर्वं पकं हवि रुपदंशं च सोष्णं चेत् तस्मिन्कालेनिवेदयेत् । अस्तमयात्पूर्वं पकं हविरुपदंशं च सोष्णम् अस्तमयात्पश्चात् देवस्य सायमर्चनं कृत्वा; तद्धवि र्निवेदयेत् । तांबूलं असंस्कृतं लेपकेशान्वितुं जंतुस्पृष्टंनिवेदयेत् चेत् वैष्णवं, श्रीभूमिदेवत्यं च, हुत्वा; पुन स्तांबूलं निवेदयेत् । अन्येष्वर्चनांऽगाद्रव्येषु दुष्टेषु हीनेष्वपि तत्तदधि दैवतमंत्रं, वैष्णवं च, हुत्वा तत्तद्ब्रव्यै रर्चयेत् । अथवा सर्वेषांद्रव्याणामलाभे पुष्पंजलं वा प्रतिनिधिं संकल्प्य; तन्द्रव्यं स्मृत्बा, अर्चयेत्। नित्यहोमे हीने वैष्णवं दशशो हुत्वाः यथोक्तहोमं द्विगुणं जुहुयात् अग्निसंरक्षणे अशक्तश्चेत् कुंडात् 'अयं ते योनि' रिति समिध्यारोपयेत्। अथवा स्वात्मन्यारोप्य, लौकिकाप्रावारोप्य, एवमहरहर्जुहोती (हुयादि)ति विज्ञायते । बलिप्रायश्चित्तम् बलिस्वरूपं, तत्करणप्रकारश्च अथ बलिविधिप्रायश्चित्तं वक्ष्ये - सुरर्षिमनुष्याणां बलमस्माठ्प्रवर्धते, तस्मा द्वलिरिति व्याख्यातः तदर्थं देवेशं दिने दिने त्रिषुकालेषु उत्तद्रव्येषु आवाह्य, अभ्यच्र्य, बलिभ्रमण कारयेत्। यथोक्तं बलिबेरंसन्यस्य; शिरसा धारयन्, त्रिकालं, द्विकालं, एककालं वा आलयं प्रदक्षिणं कारयेत् । । क्षिणंकारयेत् । " . . . · · · ·