पृष्ठम्:विमानार्चनाकल्पः.pdf/286

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2S2 विमानार्चनाकल्पे महाशाख्ने अल्पदक्षिणायागो यजमानं हंति, सदक्षिणो यज्ञः फलमनंतं ददाति । तस्माद्यज्ञस्यदक्षिणा जीवो भवेत् । वायव्यं, दिग्देवत्यं च, जुहुयात् । : सभ्याग्नौ शेषहोमहीने वैष्णव माग्रेयं, व्याहृतीश्व, दशती जुहुयात्। नित्याप्रिकुंड सभ्याग्निस्थापने हीने पूर्ववत्प्रायश्चित हुत्वा, श्रोत्रियागारतोऽग्निमाहृत्य, निधायाघारं हुत्वा; नित्यहोमं समाचरेत् । तेषामावाहने कृते महत्तरोदोषो भवति । ततः शीघ्र शुद्धोदकेन'इषेत्वोर्जेत्वे' ति स्नापयित्वा; देवमनुमान्य; वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं च हुत्वा; पूर्ववत् ध्रुवबेरादावाहयेत् । , इति श्रीवैखानसे मरीचिग्रोके विमानार्चनाकल्पे प्रतिष्ठाप्रायश्चित विधिर्नाम पंचषष्टितमः पटलः ||६५|| अथ षट्षष्टितमः पट-1ः अथ नित्यार्चनाप्रायश्चित्तविधिं वक्ष्ये-सूर्योदयान्मध्याहादस्तमयाच पूर्वकवाटोद्धाटने हीने नित्याष्ट्रौ चुल्यां वा, अत्रिंपरिस्तीर्य, आज्येनवैष्णवं, धात्रादिदेवत्यंद्ववारिकं च, हुत्वा; शीघ्रमुद्धाष्टयेत् । वैष्वक्सेनं च, जुहुयात् । सर्वेषां द्रव्याणां तोयं प्रतिनिधि स्तस्मात्तोयं संगृह्य अर्चन मारभेत । । देवे स्नानविहीने वैष्णवं, वारुणं च, हुत्वा; ‘आपोहिष्ठा' द्यैर्मन्त्रस्नानं कृत्वा; अभिषेकस्याऽशक्तौ कुशोदकैः प्रोक्ष्य; वस्त्रादीन् व्यपोह्य; धौतं