पृष्ठम्:विमानार्चनाकल्पः.pdf/285

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ल: 85 25 अग्निकुण्डार्थं मृदो वालुकंवाऽऽशुभदेशात् समाहृतं चेत्, वैष्णवं वारुण जुहुयात्। इंधनमार्द्र स धूमंजंतुकंटकलेफ्युतं अग्रौप्रक्षिपेचेत् तत्यक्त्वा, अन्यत्प्रक्षिप्य, आग्नेयं वैष्णवं व्याहृतीश्च जुहुयात् । वस्रादिद्रव्ये, दर्भादी, प्रपायां वा, अन्यस्मिन् देवार्थ कल्पिते, अग्निनादग्धे, वैष्णवं ब्राह्यं सौर माग्नेयं च प्रत्येकं दशपर्यायतो जुहुयात् । शदेवत्यंच स्नपनकाले बेरविपयसेि पश्चवारुण वैष्णवं च, शायनविपर्यासे वैष्णवंश्रीभूमिदेवत्यं च, प्रत्येकंदशपर्यायतो जुहुयात् । हौत्रशंसने विपरीते होने च ब्राह्म मुनेिं जुहुयात् । परिषद्देवानामावाहनजुष्टाकारस्वाहाकारार्चनषुविपरीतेषुहीनेषु वैष्णवं, विष्णुसूक्तं, ब्राह्यं, रौद्रं च दशपर्यायतो जुहुयात् । सर्वेषां होमानमुत्ते विपरीते होने च पद्माग्ौ वैष्णवं विष्णुसूत, पुरुषसूतं च, हुत्वा; यथोक्तं च जुहुयात् । । शयानं देव मुद्धरेच्चेत् श्रीभूमि देवत्यं, चतुष्कृत्वो (चतुर्वारं) हुत्वा, तथैव शाययेत् । । अध्ययने होने सारस्वत मष्टाधिकशतं जुड़यात्। अस्य यज्ञस्य षोडशक्रत्विजामभावे यथालाभं संगृह्य कुण्डानां च लक्षणम्, अारव्याम्, आघारविशेषं तत्तल्लोकाधिदेवतं, जातवेदस्वरूपं, ब्रह्मासनस्य लक्षणं, पात्राणां लक्षणं, होमद्रव्यम्, ऋषिच्छन्दोऽधिदैवतम्, आधारप्रयोगं च सर्व विधिना कारयेत्। पञ्चप्रतिष्ठायां त्रिविधोत्सवे च पुनश्चरणं कृत्वा, दीक्षितस्य आचार्यस्य अवभृथात्पूर्वम् आशौच नस्यात् । आचार्यस्थापकादीनां भत्सनं (हनन) शापनं वा कृत्वा, वैष्णव, विष्णुसूक्तं, पुरषसूतं, ब्राह्यं, सारस्वतं च, हुत्वा; तानि (नुज्ञा) वस्थाप्यः कार्यमारभेत । यथोक्तदक्षिणां दद्यात् । च,