पृष्ठम्:विमानार्चनाकल्पः.pdf/284

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 विमानार्चनाकल्पे महाशास्त्रे अंडजादीनामलाभे प्रत्येकं वस्रमाहृत्य, वैष्णवं श्रीभूमिदेवत्यं च जुहुयात्। तोरणेषु प्रमाणहीनेषु पृथक् पृथक् द्वाराधिपदेवत्यं, विंशतिकृत्वो जहुयात् । दर्भमालायांहीनायां आर्षं वैष्णवं च घजेत् । कुंभेप्रमाणहीने खंडादिदोषयुक्ते वस्त्रवर्णचिहादिषु हीनेषु च तस्मिन् देवोनरमेत, तस्माद्यत्नेनतानिविक्षिप्य, वैष्णवं विष्णुसूक्तं पुरुषसूक्तं त्राह्मं मुनिमंत्र माग्नेयं च दशकृत्वोजुहयात् । ब्राह्मणभोजनं च कृत्वा, आचार्याय दक्षिणादद्यात् । साधिते कुंभेभिन्ने वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, ब्राह्म मैंद्र माग्नेय मार्षं च, विंशतिकृत्वो हुत्वा; आचार्य दक्षिणां दत्वा; विप्रान् भोजयित्वा; अन्यकुंभं संगृह्य; पूर्व वत्साधयेत् । श्वकुक्कटाद्यैरस्पृश्यैः पतितैश्च साधिते कुंभे स्पृष्टे तं व्यपोह्य, अन्यकुंभं संगृह्य पूर्ववत् । वैष्णवं विष्णुसूतं पुरुषसूक्तं ब्राह्यं सौरमाग्नेयं च अग्नौप्रत्येकं अष्टाधिक शतकुत्वो हुत्वासाधयेत्। आचार्याय दक्षिणां दत्वा वैष्णवान् संपूजयेत् । (ब्राह्मणभोजनं च कारयेत्) अस्पृश्यस्पृष्टे बिंबे स्नपनोत्तक्रमेण स्नपनं कृत्वा पूर्ववत् प्रायश्वितं जहुयात् । श्वकुक्कुटाद्यै: स्पृष्टे होमे तत्कुण्डं व्यपोह्य, पूर्ववत्कुंडं कृत्वा, आघारंहुत्वा, आग्नेयं वैष्णवं पंचवारुणं मूलहोमं च शतशो जुहुयात् । वैष्णवान् संपूज्य ब्राह्मणभोजनं च कुर्यात् । स्त्रुवादीनामलाभे तत्तध्दयत्वा, सुवेणहुत्वा वैष्णवं ब्रांह्म माग्नेयं सौम्य मादित्यं च जुहुयात् । समिधाम(द्य) लाभे पालार्शीवाश्वर्त्यीवाऽऽहृत्य तत्तत्समिधंध्यात्वा, आग्नेयं वैष्णवं ब्राह्यं च जुहुयात् । दर्भान कुशान् समिधो वा मासातीतान् संगृह्य तत्तत्कर्म कृत्वा तहोषशमनार्थं वारुणं, वैष्णवं, ब्राह्मं, सौम्य, माग्नेयं, आदित्यं च, जुहुयात् । आजंमाहिषं दधि क्षीरं च गृहीतं चेत्, वैष्णवं ब्राह्म माग्नेयं सांरच व्याहृत्यन्तं पृथक् पृथग्यजेत् ।