पृष्ठम्:विमानार्चनाकल्पः.pdf/283

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलः ६४ यथोक्ते स्थाने पञ्चाग्नीन् परिकल्प्य, प्रोक्षणोछेखने कृते मथिताग्न्यलाभेतु आचार्याऽगारतः श्रोत्रियाऽगारतो वा अन्निमाहृत्य गार्हपत्याग्निकुण्डे निधाय आघारंहुत्वा वैष्णवं, भूमिदेवत्यम् आग्नेयं, जुहयात् । तमग्निं वर्धयित्वा, अन्वाहार्ये प्रणीय, पश्चादाहवनीये प्रणिधाय, पश्वादावसथ्ये प्रणीय, ततस्सभ्ये प्रणीय, ततः पद्माग्नौ प्रणयनं कुर्यात्। विपरीते तत्तन्मंत्रहीने च वैष्णवं, आग्नेयं, ब्राह्यं, सौम्यं च, हुत्वा; अग्निंप्रणयेत् । पश्वात्तत्तदग्निषु आघारात्पूर्वतोऽन्तरा नैवगच्छेत् । अज्ञानाद्यदि गच्छेत् तद्दिक्पालदेवत्यं वैष्णव माग्नेयं च जुहुयात् । तण्डुलैरेकजातीयैर्द्विप्रस्थै: चरूं गव्यं नवनीतं च लौकिकाग्नौपाचयित्वा; पुनस्तत्तदग्निषु समंत्रकं संस्कुर्यात् । अाज्यस्धाल्यां चरौ वा मक्षिकाक्रिमिरोमपिपीलिकादीनां पतिते तद्व्यपोह्य, अन्यद्गव्य मादाय, प्राजापत्य माग्नेयं वैष्णवं च जुहुयात् । अाज्याऽलाभे तं दोषंव्यपोह्म, दभैरुत्पूय, उद्दीप्याऽऽहरेत् । अाधारेकृते तस्मिन्न (ग्नौगते) ग्रावनुगते ‘अयंतेयोनि' रिति तद्भस्मनि समिधमारोप्य 'उद्बुध्यस्वे' ति लैकिकाग्नौ निधाय इन्धनानि विक्षिप्य, उज्वाल्य परिषिच्य, विच्छिन्नं, मिंदाहुतीः, वैष्णवं, व्याहृतीश्व, यजेत्। परिस्तरणादि संभाराणां दाहे भेदे छेदे नाशे च पुन स्तत्तत्संयोज्य, महाव्याहृती राग्नेयं मिंदाहुतीः वैष्णवं च जुहुयात् । विशेषेनुक्ते स्रुवेण होतव्यं।हविर्विशेषेऽनुक्तेचाऽऽज्येन आज्यालाभे साज्येन चरुणा होममाचरेत् । उक्तद्रव्यस्य हीनंचेत्कापिलेनधृतेन वैष्णवं विंशतिकृत्वोयजेत्। प्रायश्वित्ताग्निकुण्डे अनुक्ते नित्याग्निकुण्डे चुल्यां वा जुहुयात्। । क्रियाहीने विपर्यासे मंत्राणांसंकरे वा वैष्णवं व्याहृतीश्व यजेत् । प्रायश्वित्तविशेषेऽनुक्ते वैष्णवं, विष्णुसूक्तं, पुरुष सूक्तं च, जुहुयात् ।रत्नधातुबीजाद्यलाभे रुग्मघारदयवानाहृत्यरत्नानां वैष्णवं विष्णुसूक्तं, धातूनांदिग्देवत्यंवैष्णवं, बीजानां वायव्यं वैष्णवं च; प्रत्येकं विंशति कृत्वो वस्ने लक्षणहीने छेदादि युक्ते च तत्त्यक्त्वा, अन्यदाहृत्य, श्रीदेवत्यं, वैष्णवं च, यजेत् ।