पृष्ठम्:विमानार्चनाकल्पः.pdf/278

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

244 विमानार्चनाकल्ये महाशास्त्रे धुवे नटे पूर्वद्रव्येष्ण, उत्कृष्टद्रव्येण वा, बेरं सलक्षणं कृत्वा; प्रतिष्ठांकारयेत् ॥ संकृत्वा, तत्स्थाने रत्नन्यासंकृत्वा: पुन:प्रतिष्ठा कारयेत्। अन्याऽऽलया दपहृत(मात्रं) निष्पन्नक्रियं शिलाबेरं यदि स्यात् तद्भूमौ पिधाय; विधिनाऽऽहृत्य; शेषक्रियां कृत्वा; विधिना स्थापयेत् । शिल्पिनाशिलाग्रहणं कृत्वा; सलक्षणं कृतंबेरं स्थापितमिच्छेच्चेत् विधिनाऽऽहृत्य; प्रतिष्ठां कारयेत् । यथाविधि यथास्थान स्थापित निर्दोषबेरं न चालयेत्। तदज्ञानाश्चालितंचेत्, राज्ञो राज्यस्य चाऽशुभाय नाशाय भवति । तद्दोषशमनार्थं पद्माऽट्रौ महाशांतिंहुत्वा; विप्रशतंभोजयित्वा; सुवर्णदानं गोदानं च कृत्वा; अान्धार्याद्यै रविधिज्ञैः स्थापितं बेरं क्षिप्रं चालयित्वा; यथाविधि । विधिज्ञैः पुनः स्थापयेत् । Հ विधिज्ञैः स्थापितं बेरं चालितं चेत्, शांतिं हुत्वा, वैष्णवान् संपूज्य; यथास्थानं यथाविधि स्थापयेत् । विमानं ध्रुवं च, नदीतटाकसमुद्रसंबोधमहावातादिना येन केनचिच्चालितं चेतु, तद्वेरं भूमौ पिधाय; तत्स्थाने पूर्ववद्विमानं कृत्वा, ध्रुवंबेरं अचल स्थापयेत्। अथवा तत्समीपे ग्रामादी सति तत्र विविके देशे मनोरमे तथैव विमानमुत्कृष्ट वा कृत्वा, तद्वेर्रसपरिषत्कमाहत्य, संस्थाप्य, विधिनार्चयेत्। ग्राम्दहीने तस्माच्छतदंडाद्वध्वं विस्तीणेंदेशे पूर्ववत् विमानंकृत्वा; तद्देवंस्थापयेत्। राजा राष्ट्रांतरंजित्वा बेरमाहत्य, स्थापितुं यदि इच्छेत्, स्वराष्ट्रे मनोरमे देशे ग्रामविन्यासं कृत्वा; तद्वास्त्वंगाऽऽलये बेरं विधिना संस्थाप्याऽर्चनादीनि कारयेत् ॥ · ਕਹਿਬ སྤྱམ་ व, प्रसाद प्रतिमा च, कृत्वा;