पृष्ठम्:विमानार्चनाकल्पः.pdf/273

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलः कृत्वा; तत्तन्मंत्रैरष्टाधिकशतमावर्त्य हुत्वा, रात्रिशेषंव्यपोह्य; प्रभाते स्नात्वा; देवान् प्रणम्यः मुहूर्त्ते प्राप्तॆ तत्तन्मंत्रेणस्थापनं कृत्वा; तत्तद्धृदये तत्तद्भीजाक्षरंन्यस्य; तत्तन्मंत्रेण तत्तत्कुंभोदकेन अावाह्यः पुण्याहान्ते अभिमुखे देशे (धान्यपीठे) देवमभ्यर्च्य, हविर्निवेदयेत् ॥ आचार्यादिभ्यो दक्षिणां दद्यात्। नित्यार्चनामाचरे दित्याह मरीचिः ॥ कर्षणादिप्रतिष्टातं प्रतिष्टाद्वर्चनान्तम् अर्चनादिस्नपनांतं, सपनद्युत्सवांतं प्रकरणं समाप्तम् ॥ इति श्रीवैखानसे मरीचिप्रोते विमानार्चनाकल्पे मानुष वासुदेवादि विधिर्नाम षष्टितमः पटलः ॥६०॥ अथ एकषष्टितम्: पटल: भूपरीक्षादौ प्रायश्चितम् अथ भूपरीक्षादि प्रायश्चित्तविधिं व्याख्यास्यामः - न्यूनातिरिक्तव्याघातेषु प्रायश्चित्तं न कुर्याच्चेत्, विनाशाय भवति । तस्मात्प्रायश्चित्तं समाचरेत् । प्राय इति शद्धेन दोष संपातानां चित्तमिति तस्य प्रतिषेधः तस्मा त्प्रायश्चित्तमित्युच्यते । भूपरीक्षादि क्रियां यस्मिन्नहनि कारयेत्, तस्मिन्नहनि तदर्थ गमनकाले विध्नश्चेत्, वैष्णवं वैध्न्यं च जल्प्वा, दुर्वाक्ये श्रुते ब्राह्यं सारस्वतं च जत्प्वाः देवंध्यायन् गच्छेत् । तत्काले कलहृरुधिरस्रावाऽग्निदाहेषु वैष्णवं, सौम्यं वैष्वक्सेनं, सौदर्शन, गारुड च, लौकिकाग्नौ हुत्वा, पुनरारभेत । भू परीक्षादिकाले तत्पांसुक्षये पूर्णाहुतिं मिन्दाहुतिं च जुहुयात् । तत्तदभिमिमंत्रक्रमेणाऽऽहुतं चेत्, तस्मिन् शुद्धे देशे च औपासनाऽग्निमाधाय; वैष्णवं व्याहृत्यन्तं दशशो जुहुयात् । कर्षणाकाले वृषभे अंगहीने रौद्रं, ब्राह्मं, हलादीनामुक्तवृक्षालाभे प्रमाणहीने च वैष्णवं, सौम्यं, अग्नेयं, प्राजापंत्य च, स्ज्जुच्छेदे वारूणं, सीतायां श्रीदेवत्यं वात्रे(त्र)ज्येष्ठामंत्र, वृषेवायव्यं, अक्षिप्यांवासवं युगे शेषमंत्रं प्रतोये यान्यं, व्याहृतीपर्यन्तं जुहुयात्।