पृष्ठम्:विमानार्चनाकल्पः.pdf/266

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

232 विमानार्चनाकल्ये महाशाश्त्रे अथ अष्तपंचाशत्तम: पतल: जमदग्न्यस्य लक्षणम् जमदग्निरामं मध्यमंदशतालमितं द्विभुजं रक्ताभं श्वेतवस्त्रधरं दक्षिणेनहस्तेन परशुधरम् उद्देश्यवामकरं जतामकुटधरं सोपवीतं सर्वाभरणभूषितं स्थितमेव कारयेत् । कौतुकं तद्रूपं चतुर्भुजं विष्णुं वा कारयेत् ॥ तलप्रतिष्ठा अथ प्रतिष्ठाविशेषं वक्ष्ये - पूर्वोक्तयागशालामध्ये शय्यावेदिंपरितः पंञ्चाग्नींश्च परिकल्पय; आहवनीये प्रधानाग्नौ हौत्रं प्रशंस्य, 'रामं ऋषिसुतं विष्णुं परशुपाणि' मिति आवाह्य आहवनीये आज्याहुतीर्हुत्वा: 'विष्णुर्वरिष्ट' (वै०म०प्र०८) इति मंत्रेणाऽष्टोत्तरशतमावर्त्यहुत्वा अन्यत्सर्वपूर्ववदाचरेत्। नित्यार्चनायां ध्रुवबेरं तन्मूर्त्तिमंत्रैरष्टो पच्चरैरभ्यर्च्य, कौतुकं पूर्ववत् षोडशोप चारमंत्रैः संयोज्याऽर्चयेत् । स्नपनोत्सवादीनि विष्णोरिव समाचरेत् ॥ राघवस्य लक्षणम् अथ राधवं रामं स विंशतिशतांऽगुलमितं द्विभुजं त्रिघ्नतस्थितं दक्षिणेन हस्तेन शारधरं वामेन चापधरं शयामाभं रक्तांबरधरं किरीटाद्याभरणाऽन्वितं कारयेत् । अभंगसमभंगमतिभंगमिति त्रिविधं नतमानमाभंगस्य त्रिमात्रं समभंगस्य वेदांगुलमतिभंगस्य शरांगुलं एतेषां पादांगुष्ठांतरमष्टादशांगुलं विंश्त्यंगुलं क्रमेण तत्त्रिभागैक पाष्ण्र्यंतरमापादतलमस्तकं मध्यसूत्रस्य मूर्ध्न: पार्श्चे वामनेत्रसितमंडले वामनासपुष्टेऽ धराहनोर्वामपार्श्वसव्यस्तनस्य दक्षिणपार्श्वे नाभेर्दक्षिणे वामोरुदक्षिणपार्श्वे वामांघ्रिपार्श्व प्रलंबयेत् । एतदाभंगसूत्रं समभंगस्य मुखंत(थो) च्चोक्तं वामस्तनपीठपार्श्व नाभिमध्ये ऊरुमध्ये पाष्ण्र्य मध्येतु प्रलंबयेत् एतत्समभंगसूत्रं। अतिभंगस्य मुखं पूर्ववत्राभेर्वामेवामेरूमध्ये पाष्ण्यंतरेम् च लंबयेत् एतदतिभंगसूत्रम् । शेषं पूर्ववत् । अधिकात् हिक्कासूत्रात् स्तनं द्विमात्रं सूत्रा त्राभि द्विमात्रं सूत्रान्मात्रार्थं जानुनी प्रमते (प्रमिति मति) भंगे अन्यसूत्रनिर्म युक्तितः कारयेत् ।