पृष्ठम्:विमानार्चनाकल्पः.pdf/265

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटल: ५७ चः ऊर्ध्वपादोभवेत् । एतेषु यथेष्टं रूपं निश्चित्य; पूर्ववच्चतुर्विशतितालविभागेन देव मष्टबाहुं चतुर्बाहुं, अष्टभुजे दक्षिणहस्तैः चक्रशाराऽसिधरं, वामहस्तै: शंखशार्ङ्ग हलमुसधरं; चतुर्भुजे दक्षिणेन चक्रगधरं, वामेनशखंधरं, अभवदानदक्षिणहस्तं, प्रसारितपादेन प्रसरितवासहस्तं, स्थितदक्षिणपादं प्रसारि तत्पृष्ठेकल्पद्रुमम्, इन्द्र, छत्रम् उभयोः पार्श्वयोः जवन जलेशौ चामरधारिणौ तदूर्ध्वे दक्षिणे दिवाकरम् अदक्षिणे निशाकरं तथासनकसनत्कुमारौ च कृत्वा, प्रसारितपादस्योध्र्वभागे ब्रह्माण तत्पादं प्रगृह्महस्ताभ्यां प्रक्षालयंतं, च कारयेत् । पादपाश्र्वे नमुचिं भ्रममार्ण वामपाश्र्व शुक्र विध्नकरं तं मुटिनाप्रहरंत गरूदं , दक्षिणे वामनं तत्पार्श्वे बलिंहेमाभं सर्वाभरणभूषितं सपत्नीकम् हर्षेणकराभ्यांहेमकलशमुध्दरंतं तस्चोर्ध्वेजांबवंतं भेरीतादनपरंच कारयेत्। (अत्रानुक्तं) भृगूक्तविधिना त्रैविक्रमस्यकौतुकंचतुर्भुजमेव कारयेत् । तयोः प्रतिष्ठा वामनत्रिविक्रमयो: प्रतिष्ठाविशेषं वक्ष्ये-पूर्वोक्तयागशालामध्ये शय्यावेदिं परितश्चाग्नीन् पौंडरीकाग्निं च कारयेत् । एकाग्निविधिनाकारयेदिति केचित्। एककुंभे समावाह्म; एकवेद्यां शाययेत्। अन्वाहार्ये प्रधानाग्नौ हौत्रशंसनं 'त्रिविक्रमं त्रिलोकेशं' विष्णुं सर्वाधारमिति त्रिविक्रमस्च। “वामनं वुर्दुं विष्णुं कूपम् अद्विति प्रिय' मिति वाम्।नन्यदेवानां तत्तन्मूर्त्तिमंत्रैरावाहनादीनि कारयेत्। 'योवात्रिमूर्ति' (वै०म॰प्र०८) रिति मंत्रेणाऽष्टोत्तरशतंहुत्वा; अन्यत्सर्वं हरेरिव कारयेत् । नित्यार्चनायां वामनं त्रिविक्रमं च तत्तन्मूर्त्तिमंत्रैरष्टोपचारैरभ्यर्च्य; कौतुकं पूर्ववत् षोडशोपचारमंत्रैः मूर्तिं मत्रं संयोज्य अर्चयेत् । स्नपनोत्सवादीनि पूर्ववत्कारयेत्। इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनकमल्पे नरसिंह वामन न्निविक्रमविधिर्नाम सप्तपंचाशत्तमः पटलः ॥५७॥