पृष्ठम्:विमानार्चनाकल्पः.pdf/267

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटल: 58 233 दक्षिणहस्तस्च तलाग्नं लाभिदघ्नं श्रोणीदघ्नं वामकोर्परांतरं पार्ष्ण्यतण्रसमं वामहस्तं सचापम् उप्णीषद्वयस्योन्नतं तस्य नीव्रं मुखद्वलयं मौलिपाश्र्वे धनुस्थित राघवं कारयेत्। सीतां देवस्य बाहुसमां देवस्योननवार्धतालेन मानेनाभंगवशा द्रुक्माभां शुकपक्षनिभांबरां सर्वाभरणभूषितां धम्मिल्लबंधयतां करंटिकामकुटयुतां वामहस्ते नोत्फुल्लपद्मधरां प्रसारितदक्षिणहस्तां देवस्यदक्षिणपार्श्र्वे किंचिद्देवं समीक्ष्य विस्मयोत्फुल्ललोचनां कारयेत् ॥ कटकाग्रस्चोत्सेधं स्तनाक्षसमं नामेर्मणिबंधालरं सार्धत्रयोदशांगुलं पार्श्वमध्यबाहुन्तरं ससांप्तंगुलं प्रसारित करतलमध्योर्वतरं द्विमात्रं तच्छ्रोणीबंधांतरं चतुरंगुलं पार्श्र्वमध्यं बाह्वन्तरं रसांगुलं शेषं युक्त्यैव कारयेत् । वामपार्श्र्वे सौमित्रिं देवस्य कर्णातं बाह्वंतंवा कनिष्ठदशातालेन समभंगवशान्मुखमध्यर्धाकागुलम् एव(मि) मष्टाननं भागचतुष्टय मन्यत्सर्वं पूर्ववदुद्दिष्ट मुद्वंध कुंतलं युवराजभूषणान्चितं द्विभुजं रामवत् शरचापधरं सुवर्णावर्णं श्यामांबरधरं समभंगान्वितं कारयेत्। हनूमंतं प्रमुखे किंचिद्दक्षिणमाष्रित्यस्थितं देवस्य स्तनांतं नाभ्यंतं ऊरुमूलांतं वा सप्मतालमितं द्विभुजं दक्षिणेन हस्तेन अास्यं वामेन स्ववस्त्रंच पिदधानं किंचिदूर्ध्वाननं कारयेत् । मूर्ध्नः कला भ्रूअतं तस्मादृक्कलामात्रत्रयंनासिकांतं तथाधरं विंशतिमात्रं जानुं द्रव्यंगुलंजंघासप्तदशांगुलं कलातलं तदायामं दशांगुलं बाहुं विंशत्यंगुल तच्चतुर्थैरहीनं प्रकोष्ठतलं पादायामसमं शेषांगंनरस्चोक्त्ततारान्मात्रोनम् ऊरोर्बाह्णो:करटिमध्येश्रोण्यां च कलोनं पदमात्राविहीनं शरार्धांगुलहीन मंगुलिद्वियवहीनं अत्रानुक्तं सर्वं युक्त्यैव कारयेत् ॥ राघवस्य प्रतिष्टा राघवस्य प्रतिष्ठा विशेषं वक्ष्ये-पूर्वीत यागशालामध्ये शय्यावेर्दि परितः पंचाग्नींश्च परिकल्प्य: सीतालक्ष्मणसंयुक्तं देवं हनुमतासार्धं एकहुंभे संकल्प्य; अन्वाहार्ये प्रधानाग्नौ ह्यैत्रंप्रषंस्य; 'रामं दासरथिं वीरं काकुत्स्थ' मिति राघवस्च, 'सीता मयोनिजांलक्ष्मीं वैदेही' मिति सीताया:, 'रामानुजं