पृष्ठम्:विमानार्चनाकल्पः.pdf/261

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलः 56 227 यज्ञवरहस्य अथ यज्ञवराहं श्वेथामं चतुर्भुजं शंखचक्रधरं वाम पादं समाकुंच्य दक्षिणंप्रसार्य सिंहासने समासीनं पीतांबरधरं सर्वाभरणभूषितं कारयेत् । तस्य दक्षिणे देवींश्रियं हेमाभां वामपादं समाकुंच्य दक्षिणंप्रसार्य देवींसल्यश्यामनिभां दक्षिणपादमाकुंच्य वामंप्रसार्याऽऽसीनां उत्पलधर दक्षिणहस्तां आसने देवंकिंचित्समीक्ष्य विस्मय लोचनांकारयेत् ॥ त्रयाणां वराहाणां तद्रूपंकौतुकं च बिंबं चतुर्भुजं वा कारयेत् ॥ एषां प्रतिष्ठा एषां प्रतिष्ठाविशेषं वक्ष्ये-पूर्ववद्यागशालां सर्वालंकार संयुक्तां तन्मध्ये शय्यावेदिं चतुर्दिशं तद्भिक्तिसमविस्तारांपादहीनविस्तारां अर्धविस्तारां वा तक्तुरीयांशोत्सेधां तत्परितः पंचग्रीष्व, सभ्ये प्रधानाग्रौ हौत्रशंसन कृत्वा ‘वाराहं वरदं महीधरं वज्रदंष्ट्रिण' मित्यादिवराहस्य; 'गांपृथुगामुर्वी मिति मह्याः; प्रलयवराहं प्रलयहरं भूरिशद्वं जगत्रायक' मिति प्रलयवराहस्य; देव्याः पूर्ववत् । ‘यज्ञवराहं देवमयं यज्ञेशं यज्ञवर्धन' मिति यज्ञवराहस्य; श्रीभूम्योः; पूर्ववत् । एवमावाहनजुष्टाकारस्वाहाकाराँश्च कृत्वा, आदि वराहस्य प्रधानाग्रौ 'क्ष्मोमक' (वै०म०प्र०८) मिति मंत्रेणाऽटोत्तरशतं हुत्वा; प्रलयवरहस्य ‘स्वयमादि’ (वै०मव्प्र-८) रित्यष्टोत्तरशतं हुत्वा; यज्ञवराहस्य ‘यं यज्ञै' (वै०म॰प्र८) रिति मंत्रेणाऽष्टोत्तरशतं जुहुयात् । एष विशेषः अन्यत्सर्वसमानम्। कानितत्तन्नाम संयोज्य षोडशोपचारैरभ्यर्चयेत्। स्नपनोत्सवादीनि सर्वाणि पूर्वोक्तवत्कारयेत्। इति श्रीवैखानसे मरीचिप्रोते विमानार्चनाकल्पे वराहविधिप्रतिष्ठानाम षट्पंचाशत्तमः पटलः ॥५६॥