पृष्ठम्:विमानार्चनाकल्पः.pdf/258

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

224 विमानार्चनाकल्पे महाशाख्ने बा अग्निं परिषिच्य; तीर्थदिन उत्सवाधिदेवत्यं तदालयगतदेवानां मूर्तिमंत्रैश्च अाज्येन, अाज्यमिश्रचरुणा वा, हुत्वा, पूर्ववद्बलंनिर्वाप्यः देवमलं कृत्यः यानमारोप्य; ग्राम मालयं वा सर्ववाद्यसमायुक्तं सर्वालंकारसंयुक्तं प्रदक्षिणं कारयित्वा; अालयमावेश्यः चूर्णसंस्कारं कृत्वाः चूर्णेन स्नाप्य, देवाभिमुखे तथैव पश्चकलशान् सोपस्नानान्विन्यस्य; देवमभ्युक्ष्य; तच्छिष्टतोयेन चक्रमभिषिच्य; तचक्रमादाय; तीर्थ प्रविश्य; निमज्य; जनानीं तीर्थदानं कृत्वा; अन्यद्भस्त्रंपरिधाप्य; अालयमावेश्य; देवं शुद्धोदकैस्संस्नाप्य; गन्धोदकैश्चाऽभिषिच्य; अभ्यर्च्य; महाहविः, प्रभूतं वा, निवेद्य; पानीयाऽऽचमनमुखवासं दत्वा; पूर्वस्थाने संस्थाप्य, अभ्यर्चयेदित्याह मरीचिः ॥ इति श्रीवैखानसे मरीचिप्रोक्ने विमानार्चनाकल्पे एककालोत्सवादिविधिर्नाम चतुष्पंचाशत्तमः पटलः ॥५४॥ 3re ujitja 9 fidh: UCCI: y मत्स्याद्यवलारविधिः अथ मत्स्याद्यवतारविधिं वक्ष्ये-ग्रामार्दी यथोते देशे पूर्वोत्केषु विमानेषु मत्स्यकूर्मवाराह नारासिंह वामन जामदग्न्य राघव बलभद्रकृष्ण कल्किन इति । एतेषां दशावताराणां प्रत्येकं पूर्वोक्तोद्देशमानेन ध्रुवबेरं निश्चित्य; पश्चान्निर्देशमानं कुर्यात्। मत्स्यस्यलक्षणम्। तत्तत्त्रगुणपूरिणाहंपुच्छ्रमध्यविष्कंभम्, एकांऽगुलमग्रविस्तारं, षडंगुलं,

क्तवत् । एवं ध्रुवबेरं कारयेत्।