पृष्ठम्:विमानार्चनाकल्पः.pdf/250

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

28 विमानार्चनाकल्पे महाशाख्ने उत्सवाऽधिदेवत्यं स्रुवेणाज्येन तिथि दैवत्यमुपभृतासाज्येन पकेन वारदैवत्यमाज्येन अग्निहोत्रहवण्या नक्षत्रदेवत्यमाज्येन जुहुयात्। सर्वालाभे तत्तत्स्मृत्वा स्रुवेण ह्येतव्यम् । यावत्संख्याऽऽहुतिः तावत्स मिद्धोमं चरुह्येमं च कुर्यात् । होतव्यसमिदादि प्रथमदिने पालाशं, द्वितीये बैल्वं, तृतीये शर्मि, चतुर्थ नैयग्रोध, पंचमे औदुबरं, षछे चाश्वत्थ, ससमे खादिरें, अष्टमे प्लाक्ष, नवमे पालाश इध्मं जुहुयात्। एतेषामलाभे पालाशमश्वत्थ वा जुहुयात्। आज्यालाभे अाज्यमिश्रचरुणाहोतव्यं । दधिक्षीराज्यमिश्रंलाजमुपजुह्वाऽऽदाय वैष्णवेन जुहुयात् ॥ द्विगुणार्चनाद्यर्थं पद्मादि संग्रहः देवस्य द्विगुणार्चनार्थं कुंभदेवाराधनार्थं, ह्येमार्थं, आस्थानाऽर्चनार्थं, बलिदानार्थ च, प्रथमदिने पर्य, द्वितीये बिल्वपत्र, तृतीये करवीरें, चतुर्थ कुमुदं; पश्चमे नन्द्यावर्त, षछे तुलसीं, ससमे स्थलाराविन्दम, अष्टमे विष्णुक्रान्त, नवमे पंकजम, एतेषामलाभे करवीरं, तुलसीं बा आहरेत्॥ बलिवाहनादीनि पूर्ववत् । कुंभस्थान्देवान् एकादशोपचारैर्वा अभ्यच्र्य, द्विकार्ल हविर्निवेदयेत्। तद्धेद्यां पश्चिमे विष्टरे देवेशं दक्षिणे चक्रं, उत्तरे विष्वक्सेनं च संस्थाप्य; अभ्यच्र्य, पश्चिमे देवाभिमुखे धान्यपीठे बलिरक्षकंच, आराध्य; मुखवासंप्रदाय, देवेशमभ्यच्र्य, हविर्निवेद्य, विधिना अन्नबलिं अध्र्यबलिं पुष्पबलिं। वाआराध्य, चक्रमग्रे, बीश शान्तं बलिबेरं च क्रमेणनयेत्। पूर्ववढेराभावे चक्रादीन् पात्रेषु समावाह्य, अभ्यच्र्य नयेत्। अथवा चक्रं बलिबेरं च नयेत् । पूर्ववत्प्रभूतं बलिमाहृत्यः शिष्येण वाहयित्वा; पुष्पगन्धधूपदीपाऽक्षतयुतं बलिदाता अग्रतो गछेत्। पूर्ववद्द्वारपालादिभ्यः बलिंदत्वा; ग्रामस्य बाह्मवीथ्यां, महत्वे अभ्यन्तरवीथ्यां वा, प्रदक्षिणवशेन