पृष्ठम्:विमानार्चनाकल्पः.pdf/248

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

214 विमानार्चनाकल्पे महाशाख्ने

सूत्कपूर्वमरुणनारायणाद्यष्टाक्षरपारायणं कुर्यात्। तद्दिनेष्वाशौचं न भवेत्। ततो देवालयं प्रविश्य; देवं प्रणम्य; उत्सबबिंबंदेव्यौ च तदलाभे स्नापनं तदलाभे कौतुकं वा आहृत्यमध्याहार्चनांते स्नपनोक्तविधानेन यथाशक्तिकलशैः स्नापयित्वा; अथवा शुद्धोदकैरभिषिच्य; हविर्निवेदयेत्। तदालयगतदेवेभ्यः सर्वेभ्यः परिवारदेवेभ्यश्र्च्यावत्तीर्थान्तं तावस्त्रिकालं द्विगुणं हविर्निवेदयेत्। परिवारदेवानां बिंबाभावे तत्तत्पीठे तथैवाभ्यर्च्य; एक कालं वा हविर्निवेदयेत्। सायाहे यजमानेनआचार्य: शिष्यै स्सार्धं वस्त्रो त्तरीयाभरणैरलंकृतः, चक्रवीशशांतान् सप्तविंशति विग्रहैरभ्यर्च्य; अलंकृत्य; यानमारोप्या, शिरसाधारयन् तीर्थांकुरार्थं मृत्स्ंग्रहणार्थं भत्कानांब्रहाणानांशिरोभिः पालिकादीन्धारयन् वस्त्रमाल्यालंकृतं खनित्रं चाऽऽनीयः सर्ववाद्यसमायुक्तं सर्वालंकारसंयुतं 'विष्णुर्मांरक्ष' त्विति अग्रतोगछेत् । आलयाद् ग्रामाद्वा प्राचीमुदीची मौशनीं वा दिशां गत्वा; संशेध्य, उपलिप्य; तस्मिन् भूलोकवद्वर्त्तुलमुल्लिख्य; तन्मध्ये महींदेवीं ध्रुवबेरस्य बाहुसमांस्तनांतां वा ऊर्ध्ववात्क्रामैशान्यांन्यस्तमौलिकां नैऋत्यांन्यस्तपादां दक्षिणमाकुंच्य, वामंप्रसार्यशचानां, द्विभुजां धृतोत्पलदक्षिणहस्तां ऊरुप्रसारितवामहस्तां यथालामामरणांऽबरान्वितां नवतालमानेनकल्पयित्वा; 'आपोहिष्टाद्यैरभ्युक्ष्य' एकादशोपचारैरभ्यर्च्य; तामनुमान्य; ललाटे बाहोस्तनयोर्वो मेदिनीमिति मंत्रेण 'त्वांखनामी' ति आचार्यः प्राङ्मुखं उदड्मुखोवा खनित्वा; हेमादिपात्रे मृदंगृहीत्वा; वस्त्रैराछाद्य; तत्कमेणग्रामं प्रदक्षिणीकृत्य; देवालयं प्रविश्य; अंकुरार्पणस्थाने मृदंस्न्यस्च; विधिना अंकुरार्पणं कारयेत्॥ इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे उत्सवद्रव्य मृत्संग्रहणविधिर्नाम व्दिपंचाशत्तमः पटलः ॥५२॥