पृष्ठम्:विमानार्चनाकल्पः.pdf/245

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पट्ल: 51

    यूधाधिपाऽक्षहन्तयोःपृष्टे चक्रस्यपृश्यवा षट्तालं पञ्चतालं चतुस्तालं वा व्यापोह्य; पञ्चतालं चतुस्तालंत्रितालं वा अवटं खनित्वा, मध्ये प्राग्दक्षिण पक्ष्विमोत्तरेषु पंचरत्नानि विक्षिप्य; शाल्यादि धान्यं निधाय; तदवटे ध्वजारोहणकालाप्तूर्वं शकुनसूक्तं जपन् ध्वजदनण्डं संस्थाप्य; वाघ्यघोषयुतं ध्वजाग्र यष्टिः यत्र विमानं तद्दिग्गता यथा भवति तथा संस्थापयेत् । 
    तन्मूले प्रतिदिक् द्वादशांगुलविस्तारोत्सेधं त्रिवेदि सहितं पीठं कारयेत् ।
    अथवा द्वित्रिहस्तायतविस्तारां एकहस्तोत्सेधां एकवेदिं कृत्वा तदूध्वें अष्टदलैरावृतं पद्मं कारयित्वा, आलयाभिमुखे मंटपं प्रपां वा वितानध्वजाधैरलं कृत्य, प्राच्यां ध्वजपटविस्ताराधिकाऽऽयामं तस्यार्धविस्तारं ध्वजस्यपश्चिमे चतुर्विशत्यंगुलायामं चक्रस्योत्तरे तथैव विष्वकूसेनस्य ध्वजस्यपश्र्चिमे चतुर्विशत्यंगुलायामं चक्रस्चोतत्तरे तथैव  विष्वकूसेनस्य धान्यैस्त्रिवेदिसहितं पीठं कृत्वा; वायव्यां ऐशान्यांवा कुंडमौपासनं कृत्वाः आघारं हुत्वा; अग्रेः  पश्चिमस्यां धान्यपीठे प्राड्मुखं ध्वजं संस्थाप्य, वास्तुहोमं हुत्वा; पर्यग्नि पश्चगव्याम्यां संशोध्य; ‘दभ्द्यः स्वाहेत्यादि गारुडं ध्वाजं वैष्णवं च हुत्वा, तत्तन्मंत्रेणाऽक्षिमोचनं कृत्वा, गवादि दर्शनद्रव्याणि दर्शयित्वा, 'आपोहिष्ठा मयोभुवादिनाऽभ्युक्ष्य; पश्चाच्चतुराढ्कसंपूर्णं कालविहीनं कुंभं तन्तुना परिवेष्ट्च, प्रक्षाल्य, अभ्दिरापूर्य, वस्त्रयुग्मेनावेष्टूच, 'इदमापःशिवा' इत्यमिमृश्य, अक्षतान् स्वर्ण्ं कू कूर्चं च विक्षिप्य; गरुडस्याऽभिमुखे धान्यपीठे सन्यस्य, गरुडंध्यायन् कुंभेऽभसि सामावाह्म, कुंभं गरुडं च तथा स्नानायाऽभ्युक्ष्य; तथैव प्रतिसरं बध्वा; धान्योपरेि पंचंवस्त्राण्यास्तीर्य; शयनं संकल्प्य; अग्निं प्रज्वाल्या हौत्रं प्रशंस्य; ध्वजं गारुडं वैष्णवं च हुत्वा; तद्वीजाक्षरं तस्य हृदये न्यस्य; कुंभस्थां शकिं कूर्चेनादाय; गरुडं ध्यायन् मूर्तिमंत्रैरावाह्य; आनम्य, तन्मंटपे कृते धान्यपीठे ध्वजंपश्र्विमामिमुखं प्रस्थाप्य, पश्र्विमेप्राड्मुखं चक्रं उत्तरे दक्षिणामुखं शान्तं च, संस्थाप्य, गरुडं गरुगायत्र्या शान्तचक्रौ तत्तन्मंत्रेण आसनाद्यैरेकादशोपचारैरष्टोपचारैर्वाभ्यर्च्य; मुद्रान्नं गरुडस्य अन्ययो:शुद्धान्नं निवेद्य; पानीयाचमनमुखवासं दत्वा; पुण्याहं वाचयित्वा; आग्रेय्यां धान्योपरिन्यस्तभेर्यां 'भूतीशं महाभुजं विष्णुभत्कं गदाधर' मिति भूतेशमावाहाल, हविर्निवेघ्य; वस्त्राघैर्वाद्कमलंकृत्य; आचार्यप्राड्मुख् उदड्मुखो वा 'उपश्वासय पृथिवी' मिति भेरीसूत्कं जप्त्वा|