पृष्ठम्:विमानार्चनाकल्पः.pdf/243

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटल: 51 वा दक्षिणपार्श्वे कृते पीठे रत्नं सुवर्णं वानिक्षिप्य; तन्मन्त्रेण प्रतिष्टाप्य; तद्वीजाक्षरं सन्यस्य; कुंभस्थांशात्तिं कूर्चेनाऽऽदाय; तन्मन्त्रेण तन्मूर्त्तिमन्त्रैरावाह्य: आसनाद्यैरभ्यर्च्य, हविर्निवेदयेत् । एवं यः कुरुते भक्त्यारिपून्। सर्वान् जित्वा: इष्टान्कामानवाप्य, विष्णुलोकेमहीयते इति विज्ञायते ।

     इति श्रीवैखानसे मरीचिप्रोत्के विमानाचनाकल्पे चक्रलक्षणचक्रप्रतिष्ठाविधिर्नाम पंचाशत्तमः पटलः ||५०||
                        अथ एकप्ंचाशत्तम्: पटल्:
                         ब्रह्मोत्सवविधिः तत् द्वैविध्यम् 
           अथदेवेशस्योत्सवविधिं व्याख्यास्यामः त्रिविध उत्सवः, नित्योत्सवः, शान्त्युत्सवः श्रद्धोत्सव इति ।
           द्वादशमासेषु एकस्मिन्मासेअद्वंप्रति तत्काले नित्यं संकल्प्य, यः क्रियतेस नित्योत्सव:, भयप्रददुर्भिक्षव्याधिग्रहपीडाद्यशुभशांत्यर्थं संकल्ष्य य: क्रियते स् शत्युत्सव्:|श्रध्दवित्तेयदायुत्के तादा य्:सम्यक् 

कियते सःश्रध्दोत्सव्: भवेत्|

                        उत्सवदिनस्ंक्यातत्काल्ःश्च्
  नवाह्ं, सत्पाह्ं, पन्चाह्ं वा प्युत्सव् राञो राष्टस्यग्रामस्ययजमानस्यवा,जन्मर्क्षे प्र्तिष्टादिने विष्णुपञ्चदिनेषु मासनक्षत्रे विषवे अयने वा अवभृधं संकल्प्य, तत्पूर्वे च ऊत्सवदिनं निश्चित्य; तद्दिनं त्रिगुणं द्विगुणंवाकृत्वा; तदादावुत्सवादी वा सार्यध्वजारोहणं कारयेत् । 
                       ध्वजदण्ड्लक्षणम्
 ध्वजदण्डमुजुकृमिकोटररहित मनुद्वेजिनं विमान(स्य)समं पादाधिक मर्धाधिकं पादहीनं अर्धहीनं वा चतुर्वेिशत्यंगुलपरिणार्ह, यथालाभपरिणार्ह वा, वेणुजाति चंपक क्रमुर्क वा अन्यं शुभवृक्षसारं वा; गृहणीयात् । आगस्त्यंवेति केचित् ॥
                      ध्वजपटलक्षणादि
 ध्वजपटमह्त्ं शुध्द्ं हदं, शुक्ल्ं कार्पासतंत्तुनाक्रुत्ं, चतुर्द्शत्रयो-