पृष्ठम्:विमानार्चनाकल्पः.pdf/239

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 2O6 पटलः श्रीवत्सादीन् मंगलान् सन्यस्य; तेष्विन्द्रमभ्यर्च्य ‘त्वं वज्रभृ' (वै०म॰प्र०१) दिति मंगलैः प्रदक्षिणं प्रणामं चकारयेत् । ऐशान्यां सोपस्नानं पश्चगव्यं 'त्र्यंबक’ (वै०म०प्र०३) मिति तस्मिन्शर्वम्, उपस्नाने विश्वान्देवान् समभ्यर्च्य, ‘वसो:पीवत्र' मिति पञ्चगव्येन स्नापयेत् । 'वारीश्चतस्र' इति सर्वोपस्नानैरभिषेचयेत्। पूर्ववत् द्वारोत्तरपदे धृतं 'धृतप्रतीक' (वै०म०प्र०१) इति सन्यस्य; तस्मिन् सामवेदमभ्यर्च्य; उपस्नाने अप्सरसश्चाभ्यर्च्यः ‘अग्नआयाही' ति घृतेन स्नापयेत्। पूर्वद्वारदक्षिणे "यन्मधुन’ (वै०म॰प्र०३-) इति मधु सन्यस्य; तस्मिन् ऋग्वेदम्,उपस्नाने प्राणानावाह्य,अभ्यर्च्य,'अग्निमील'इति मधुना स्नापयेत्। आग्रेय्यां 'दघिक्रावण्णे' ति दधिं संन्यस्य तस्मिन् यजुर्वेदम्,उपस्नाले रुद्रमभ्यच्र्य, इषेत्वोर्जेत्चे ति दध्ना स्नापयेत्। दक्षिणद्वारपूर्व 'शन्नो देवी' रिति क्षीरं संन्यस्य,तस्मिन्नथर्ववेदम् उपस्नाने अश्विनावभ्यच्र्य, 'शान्नो देवी' रिति क्षीरेण स्नापयेत्। दक्षिणद्वारपश्चिमे 'सोमं राजान्' मिति गन्धोदकं विनयस्य,तस्मिन् ऋतूनभ्यर्च्य; उपस्नाने मरुतोऽभ्यर्च्य, ‘अभित्वाशूर' इति गन्धोदकेन स्नापयेत्। नैर्ऋत्याम्, ‘इमा ओषधय' इति अक्षतोदकं सन्यस्य, तस्मिन्काश्यपम्, उपस्नाने बृहस्पतिं चाऽभ्यर्च्य; ‘इमा ओषधय' इति अक्षतोदकेन स्नापयेत् । पश्चिमद्वारदक्षिणे सोमंराजान मिति फलोदकं सन्यस्य, तस्मिन् सोमम, उपस्नाने नागराजमभ्यर्च्य; (जप)देवस्येत्वे' ति फलोदकेन स्नापयेत्। । पश्चिमद्वरोत्तरे ‘यतस्त्वमासा' दिति कुशोदकं सन्यस्य, तस्मिन्मुनीन् उपस्नाने तक्षकमभ्यच्र्य, चत्वारिवा गिति कुशोदकेन स्नापयेत्। वायव्याम् 'अतोदेवा' इति रत्नोदकं सन्यस्य,तस्मिन्विष्णुम् उपस्नाने गंधर्वानभ्यच्र्य; 'नारायणायविद्महे' इतेि रत्नोदकेन स्नापयेत् । उत्तरद्वारपश्चिमे 'ब्रह्मा देवाना'मिति जप्योदकं सन्यस्य,तस्मिन् पवित्र्म्,उप्स्नाने विद्याधरान् अभ्यर्च्य,'पूतस्त'इति जप्योदकेन स्नापयेत्।