पृष्ठम्:विमानार्चनाकल्पः.pdf/238

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2O4. विमानार्चनाकल्पे महाशाख्ने

अथ आचार्यो यजमानयुतो द्रव्यदेवाराधनार्थमेकं, कलशोद्धरणार्थद्वौ, चत्वारो वा अभिषेकार्थमेकं, होमार्थमेर्कं, होतारमेकें, वरयिल्वा, पूजयेत्। अाचार्यः पूर्वरात्रौ देवेशं विशेषतोभ्यर्च्यः पूर्ववत् शयनस्थाने शयनंसंकल्प्य; तस्मिन् स्नापनंबिंबं, तदलाभे चोत्सवं,तदलाभे कौतुकं,समारोध्य,पूर्ववत्प्रतिसरंबध्वा, शाययित्वा; प्रभाते स्नात्वा आलयमाविशेत् । यजमानः आचार्यादीन्वख्त्रोत्तरीयाद्यैरलंकृत्याऽभिपूजयेत्। आचार्योऽभ्यंतरं प्रविश्य; देवेशं प्रणम्य; उत्थाप्य, पाद्याद्यार्ध्यन्तमभ्यर्च्य; मुखवासं निवेदयेत् । अथवा तत्काले शयनं संकल्प्य; देवमारोप्य प्रतिसरंबध्वा, यामंमुहूर्तं वा, शाययेत् । आसने काले शयनंविना कौतुकंबंधयेदिति केचित् । शकुनसूक्ततोयधारापुरस्सरं वाद्यघोषसमायुक्तं, देवमानीय्य, स्नानवेद्यां प्राङमुक्खमालयद्वारदिङ्मुखं वा 'परं रंह' इति स्थापयित्वा, पाद्याचमनं प्रदाय, यजमानस्य यदुपचार: इष्टस्तंदत्वा, व्रयोदशोपचारै रभ्यर्च्य, प्राच्यामाहवनीयाग्निकुण्डं कृत्वा, आघारं हुत्वा, वैष्णवं जुहुयात्। हौत्रंप्रशंस्यदेवेशंश्वतत्तन्मूर्त्तिमंत्रैरावाह्य;आवाहनक्रमेणनिर्वाप्य स्वाहाकारं कृत्वा, द्रव्यंप्रतिद्रव्याधिदेवत्यंवैष्णवं च हुत्वा; पश्चात् स्नापयेत्। अभिमुखे दक्षिणे वा आसीनस्तद्विंबार्हंतिष्टन्वा देवमानम्य, प्राणायामं कृत्वा; ईशानेंद्रयोर्मध्ये नादेयाद्यमृद एकस्मिन्पात्रे गृहीत्वा;'उदुत्य'मिति सन्यस्य, तासुमेदिनीमभ्यर्च्य,'एकाक्षर' मिित मृदास्नापयेत्। इन्द्रादीशानपर्यन्तं द्वार वामपार्श्वेषु अष्टकोणेषु च,'इदं विष्णु' रिति हिमबदादीन् पर्वतान् सन्यस्य,तेष्वग्रिमभ्यर्च्य 'विश्वेनिमग्नः'इति पर्वतेन प्रदक्षिणं, प्रणामं च, कारयेत् । यमपावकयोर्मध्ये 'शुक्रन्त'इति शाल्यादीनि धान्यानि एकस्मिन् पात्रे संगृह्म; संन्यसेत् । तेषु वायुमभ्यर्च्य; 'प्राणप्रसूति' रिति स्नापयेत् । यमानिलयोर्मध्ये अभ्यन्तरे 'सोमओषधीना' (वै०मध्प्र०२) मिति अंकुरान् सन्यस्य तेषु ताक्ष्र्यमभ्यर्च्य, वितत्यबाण (वै०म०प्र०९) मिति देवमाराधयेत् । द्वारदक्षिणपार्श्र्वेषु, कोणेषु च, 'शसानी (वै०म०प्र०६) ति