पृष्ठम्:विमानार्चनाकल्पः.pdf/237

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलः

                       अशातकौ नवविधस्नपनविधिः

अथ विभवहीनादशक्तस्य स्नपनं नवधाभवति। प्रमुखे चतुरश्रामेवपङ्तिं कृत्वा, मध्ये पश्चगव्यं, उत्तरे तस्योपस्नान, दक्षिणे गंधोदकं, पूर्वेतस्योपस्नानं, पश्चिमे हृरिद्राचूर्णम् एतैः पञ्चभिः कलशैः स्नपनमधमाधमम् ॥

मध्ये पश्चगव्यं, दक्षिणे गंधोदकं, उत्तरे कुशोदकं,तत्तल्पूर्वेतत्तदुपस्नानं,पश्चिमे ह्रिद्राचूर्णम्,इत्येतैस्सप्तभिः कलशैः स्नपनमधममध्यमम्॥ पूर्ववत्पञ्चगव्यगन्धोदककुशोदकान्,तदुपस्नानांश्च,विन्यस्य,पश्चिमे अक्षतोदकं,वायव्ये तस्चोपस्नानं,नैत्रते हरिद्राचूर्णम् एतैर्नचभिः कलशैः स्नपनमधमोत्तमम्॥ पूर्ववन्नवकलशान्विन्यस्य पूर्वेजप्योदकं न्यसेत्।। एतैर्दशकलशै: मध्यमाधमम् ॥ जप्योदकं, एतैर्द्धाशाभिः कलशैस्स्नपनं मध्यममध्यमम् ॥ पूर्ववन्नवकलशान्विन्यस्य,पूर्व मधु,तदुत्तरे तरचोपस्नानं,दक्षिणे जप्योदकं,एतैर्द्वाशभिः कलशैस्स्नपनं मध्यममध्यमम्॥ प्रमुखे दक्षिणोत्तरं दंडवत्पंक्तिं क्रुत्वा,दक्षिणाद्युत्तरान्तं पञ्चगव्यघृतमधुदधिगुन्धोदकाऽक्षतोदककुशोदकान्विन्यस्य, तत्पूर्वे तदुपस्नानंविन्यस्य, एतैः चतुर्दशभिः कलशैः स्नपनं मध्यमोत्तमम् । एतैस्सह क्षीर, तदुपस्नानं च, विन्यस्य, एतैष्षोडशभिः कलशैः स्नपनमुत्तमाधमम्॥ एतैस्सह दधि, तस्योपस्नानं च विन्यस्य, एतैरष्टादशभिः कलशैः स्नपनमुत्तममध्यमम्। एतैस्सह सर्वौषध्युदकं च, तदुपस्नानं च, विन्यस्य; एतैः विंशति कलशैः स्नपनमुत्तमोत्तममिति विज्न्यायते॥ इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे स्नापनद्रव्यस्य उत्तमोत्तमादिनवविधिर्नाम अष्टचत्वरिंशः पटलः ॥४८॥