पृष्ठम्:विमानार्चनाकल्पः.pdf/228

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

94. विमानार्चनाकल्पे महाशास्त्रे कृत्वा, आस्थानमंटपे संस्थाप्य, स्नपनोत्तविधिना देवेशस्य, देव्याश्व, भरतादीनां पृथगेवस्नपनं कुर्यात्। अथवा देवेशस्यस्नपनं कृत्वा, अन्यांश्व शुद्धोदकैरभिषेचयेत्। अथवा सर्वान् शुद्धस्नपनविधिना संस्नापयेत् । नृत्तगेयवाद्यैर्विनोदं कारयेत् । महाहविः, प्रभूतं वा, निवेद्याऽपूपादीनि पक्त्वापकभक्ष्याणि निवेद्याऽलंकृत्य, प्रदक्षिणीकृत्य, अर्चास्थाने न्यसेत्। एवमुत्सवं कुर्यात्। सोपि महोत्सवफलं लभेत्। राज्ञो विजयो, बलवृद्धिश्व, ग्रामस्यच समृद्धिर्भवति ॥ फाल्गुनमासपूजा फाल्गुने मासि चन्दनादीन् गन्धान्नित्यं यो दद्यात् ससंवत्सरगन्धदानफलं लब्ध्वा, सर्वैश्र्वर्यमाप्णौति ॥ फाल्गुने उत्तरफल्गुन्या लक्ष्मीपूजा तस्मिन्मासे चोत्तरफल्गुन्यां लक्ष्मी प्रादुर्भूता तस्यां देवीभ्यां सह देवेरां सप्तविंशति भेदैरम्यर्च्य उत्सवस्नपना दीनि कृत्वा,प्रभूतं हविर्निवेदयेत् | अशक्तश्वेत् शुध्दोदकैरामिषिच्य यथाशक्ति हविर्निवेदयेत् || चैत्रमासपूजा चैत्रमासे सुगन्धपुष्पैर्देवेशमलंकृत्य,संवत्सरपुष्पदानफलं लभेत् | तस्मिन्मासे चैत्र्यं पौर्णमास्यां देवेशं द्वात्रिंशद्विग्रहैरम्यर्च्य उत्सवस्नपनं च कृत्वा, प्रभूतंहविर्निवेद्य, कदल्याम्रपनसादिनी सुपक्वानि बहूनि निवेद्य, सुगन्धपुष्पैर्देवेशमलंकृत्य,पुष्पदामभः प्रपामलंकृत्य, तस्यांदेवेशंसंस्नाप्य, नृत्तगेयवाद्यैर्विनोदं कारयेतू। देवाभिमुखे धान्यपीठयोर्मधुमाधवौ समावाह्माऽर्चयेत् । वसंतकालावधिर्यावत् तावन्नित्यमेवं कुर्यात् । वैशाखमासपूजा वैशाखे मासि पानीयं नादेयं तटाकं कौपं नादंवा प्रभाते नवघटे स्वच्छं स्वादुतोयं संगृह्म, उत्पूय, आदित्यरश्मौ चंद्रकिरणे च, निधाय, द्वितीये हनि सुगंधवासिते नवेघटे संपूर्य, चन्दनो शीरिलादिवासितं वायुशीतं नवेकरके संपूर्य, देवेशाययो दद्यात् ससंवत्सरपानीयदानफलं लभेत् ॥