पृष्ठम्:विमानार्चनाकल्पः.pdf/217

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

f: 43 83

                                    पटलः
       मुद्रसारं प्रस्यप्रस्थाअर्धं कुडुबं वा घृतंकुडुबं तदर्धं, गुलमेकपलं, दधिप्रस्थंपादहीनं, अर्धंवा क्रमुकफलानि षोडश, द्वादशाष्ट, षट् चत्वरि, द्वेवा, तत्त्रिगुणानि द्विगुणानि वा तांबूलपत्राणि, मातुलिंगैलालवंगकर्पूरादि यथालाभं भवेत, आढकतण्डुलाद्यधिकेष्येवं वर्धयेत् ।
                            
                             प्रभूतमहाहविषो लक्षणम्।
    द्विद्रोणादि षट्द्रोणान्तंप्रभूतं, शतप्रस्थादि सहस्स्रप्रस्थान्तंमहाद्वविरित्याक्षते । 
                               पड्विध हविर्लक्षणम्
       तण्डुलैः केवलैः पक्कंशुद्धान्नं, तंण्डुलतुल्यैः अधैर्वा मुद्रसारैर्युक्तं मौद्गिकं, तंडुलत्रिगुणेनपयसा तदार्धजलेन तंडुलार्धमुद्गसारै र्नालिकेरफलसारैश्च पक्कंपायसं; तंडुलार्धतिलचुर्णर्युक्तकृसरं, तंडुलाधिकतोयेन त्रिगुणेनपयसा अष्टभागेः पंचभागैर्मुद्गसारै स्तंडुलार्धेनघुतेन गुलेन च युक्तं गोल्यं, तण्डुलार्धेर्यवसारैः पक्कंयावकमिति षड्विधं भवति ।
                                  वर्ज्यंहविः
    द्रोणार्धकमेकपात्रेनपचेत् मासातीते मृद्रांडे पचनं न कुर्यात् । अपक्कं, स्लावितं, गंधदुष्टं, नासिकाऽऽस्यवायूपहृतं, अघ्रातं, तुषकेशादि संयुक्तं, विवृतं द्विजादिभ्योन्यजातिहष्टस्वेगस्पृष्टं, लंघितं, यामातीतं, पात्राऽन्तरगतं,शीतं, हृविरुपदंशं च वर्जनीयम्। अन्यपात्रगतं पुनः पाकार्हमुपदंशादि न वर्जनीयम् ॥
                                 हविरानयानादि
      स्थालीबाह्ममाद्भिः संशोध्य, ऊर्ध्वपुंड्र्ंकृत्वा, वारुण मंत्रैर्जलसेकं कृत्वा, दक्षिणोत्तरपाणिभ्यां हविः प्रणवे नोदुत्य, शखध्वनिसमन्वितमानीय, आलयस्योत्तरेपार्श्वे विष्णुगायात्र्यानिधाय विधिवन्निवेदयेत ॥
                      हविष्षु उत्तरोत्तरश्रैष्ठ्यं निवेदितान्नविनियोगश्च
   शुद्धान्नान्मौद्रिमुख्यं तस्मात्कृसरं ततः पायसं, ततो यावकं, तत्माद्गौल्यम्, 

श्रेष्ठंहविः श्रेष्ठफलंस्यात्, तस्मिन्नाधिकेप्यधिकम् , नित्यमेवंहविदनिफलमनन्तं प्राप्नोति । विधिनैवभक्तियुक्तो येनकामेन वा