पृष्ठम्:विमानार्चनाकल्पः.pdf/216

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विमानार्चनाकम्पे महाशास्त्रे च वजयित् । शुद्धे देशेकटेषु वस्त्रेषुवा धान्यानि आस्तीअर्यशोषयेत्। उलूखलमुसलौप्रक्षाम्य, उलूखले हरिर्णी, मुसले विष्णु मभ्यचर्य, उलूखले धन्यानिप्रक्षिप्य, धान्येषु सोममभ्यचर्य, आचार्यः 'अतो देवा' दिना किंचि दवघातंक्रुत्व, ततः शुद्धाभिः पुरुषैर्वा स्वेदरोमादीन् परिह्रत्य, तण्डुलान् शुद्वान् 'आपोहिष्टे' ते प्रोक्ष्य, शुद्धेपात्रे 'देवस्यत्वे' तिगृह्वाति । विष्णोः द्रोणहंविरुक्तमं, द्रोणार्ध मध्यमं,आढकमधमं। देव्योराढकं तदर्धं वा, परिवाराणां द्विप्रस्थैः, प्रस्थाधिकै र्वा तंडुलैः प्रोक्तम् ॥

                               माषादि ल्क्षणम्
    अष्ठतिलं माषं अष्टामाषं शाणं, विंशतिशाणं विष्कं, तिलाष्टकं शाणं, तदष्टकं माषमिति भृगुः। दशनिष्के पलं, अष्टनिष्कमिति केचित्। चतुष्पलं कुडुबं, चतुष्कुशडुबं प्रस्थं, चतुस्प्रस्थ माढकं, चतुराढकं द्रोणं भवति ।
                                  हविर्निवपः 
    लोहमयीं मृण्मयों वा स्थालों गृष्हीयात्। मृण्मयपक्षे अतीते वि सर्जयेत्। मासेऽतीते इति केचित्। प्रजास्थाली' (व०म०३) मिति स्थालीं प्रक्षाल्य, ‘देवस्यत्वे' ति तंडुलान् प्रक्षिप्य, शुद्धाभिरद्भिः ‘आप उन्दं त्विति चतुःप्रक्षाल्य, विष्णवे जुष्ट मिति चुल्यां स्थालीमारोप्य, इन्धनैर्निर्बिर्धूमैस्समेनाऽग्निना ‘वाचस्पतये पवस्वे’ (वै०म॰प्र०३) ति पचेत् ।
  उपदंशान्, कदळी चूतपनस नाळिकेर तिन्त्रिणी कारवमल्लीत्रय व्याघ्र शिंबिभेदबृहतीभेद् सिंहीव्याघ्रनखी कर्कन्धूर्वारक कुंभाडकूश्मांड कृतबंधनाऽलर्ककार्कोटकानि सूरणकंद क्षुद्रकंद महाकंद वल्लीकन्द श्रृंगिबेरोत्पलकं दपिंडि शकुटकंदादीनि च मरीचि जीरक सर्षपाणि मुद्राऽऽढककुलत्थतिल्वमाषमाषमसूरकादीनि शाकेषुजीवन्ती रथरसी रक्तबाष्पाणि च अन्यानिहविष्याणीति मन्वाद्यैरुक्तानि यथा लाभमाहरेत् ।
    कोशातकीं पटोलीं अलाबूं च विशेषेण परिवर्जयेत् । कदम्यादिष्वेकंद्वाैर्त्रीश्चतुरोधिकान्वा दोषविहीनान् प्रक्षाम्य, यथयोगं सुगंधंरससंयुक्तं सुपचेत् ।
      आढक तण्डुलस्योपदंशं प्रत्येकं षट्पलं, पश्वपलं, चतुष्पलं वा