पृष्ठम्:विमानार्चनाकल्पः.pdf/213

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलः 41 177 मस्तकेऽञ्जलौ न्यस्ते समस्तिष्कःहृदयेंजलिपुटंन्यसेत्, ससंपुटः, पाणीव्यत्यस्यहृदयेन्यस्याऽऽनतगात्रौ भवेत् सप्रह्वांगः, 'पादांगुलिभ्यां- जानुभ्यांवाऽऽसीनः साञ्जलि' भूमौ ललाटं निदध्यात् । सपंचांगः पादै हस्तौ प्रसार्य साञ्चलिर्भूत्वा अधो मुखो दंडवच्छयितः सदंडांगः, प्रणामः ।

रत्नंसुवर्णंमुख वा संवादक्षिणां दद्यात् । पुरुषसूक्ते नैकाक्षरादिना च संस्तूय अष्टाक्षरेण पुष्पाऽञ्जलिंद दाति । ‘सूर्यस्त्वे' ति स्त्वेकवाटौ बन्धयति|

मध्याह्ने सायान्हे च पूर्ववदुद्धाटयति । द्वारार्चित पुष्पाप्यपोह्या ऽभ्युक्ष्य, ध्रुवस्यपादपीठे न्यस्तानिपुष्याण्यनुरध्दृत्य, उपरिपूर्ववत्पुष्पन्यासं कुर्यात् । निशान्ते तानि निर्माल्यानि भवन्ति । तथैव धात्रादि द्वार- देवांञ्चाभ्यर्च्य् , कौतुकादि बिंबे अर्चितानि पुष्पाण्यादाय तत्पीठपार्ष्वे निधाय, आसनाद्यैरर्चयेत् । उत्तमे पाद्याद्यैरुपचारैरर्चयेत् । मध्यमे रात्रौस्नानाद्यैरुप- वीतान्तैर्विनाऽन्यैः । अधमे पाद्याद्यर्ध्या चमनान्तैर्हविषि लब्धे पाद्यादि हविरन्तैः अर्धयामे पायादिदीपान्तै र्हविरन्तैरित्येके ।

अर्धयामे पुष्पन्यास-होमबलिदानबल्युध्दरणानि न कुर्वीत । अंत्य वेलायां तत्तन्मंत्रेषु तत्तन्मूर्त्तिमंत्रं संयोज्यार्चयेत् ।

नवषठ्-पंचमूर्त्तिविधानि विष्णुमादिमूर्तिं पूर्ववदर्चयेत्। पुरुषमूर्त्तेरा- पोहिष्टेत्याचमनं, हिरण्यगर्भ इति अर्घ्यदानं, हविर्निवेदनं च। सत्यमूर्त्ते: 'योगे योग' इत्याचमनम्‘इदमापः शिवा' इत्यर्घ्यदानम्, 'इहपुष्टि' मिति हविर्निवेदनं च । अच्युतमूर्तेः 'समानेवृक्ष' इत्याचमनं, 'नारायणायविग्रहे' इतिअर्घ्यदानं, ‘समावर्त्ती' ति हविर्निवदनं च । अनिरुध्दमूर्त्ते: 'पवित्र' इत्याचमनं, ‘कयानश्वित्रो' इति अर्घ्यदानं'त्रीणिपदे' ति हविर्निवेदनं चकुर्यात् । शयानस्याऽऽदिमूर्तेरिव मंत्रेषु तत्तन्मूर्त्ति मंत्रं संयोजयेत् । नरनारायणनारसिंह्यवराहाणाम्स्तत्तन्मूर्ति मंन्त्रं संयोज्याऽर्चयेत् ।। ध्रुवार्चनायां पूर्ववत् ध्रुवकौतुकयोः पुष्पन्यासविधानेन पुष्पन्यासं कृत्वा द्विकालमेककालं वा स्नापयित्वाअभ्यर्चआवाहनविसर्गौ नकुर्यात् । एष विशेषो अन्यत्सर्वंसमानम् अन्येषां देवानामर्चने मंत्र एव विशेषोभवतीत्याह मरीचिः ॥ इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे नित्यार्चनाविधानं नाम एकचत्वरिंशः पटलः ॥४१॥