पृष्ठम्:विमानार्चनाकल्पः.pdf/214

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

178 विमानार्चनाकल्पे महाशास्त्रे अथ द्विचत्वारिंश: पटल: बलिविधिः बलिपावलक्षणम्। अथ बलिविधिं वक्ष्ये-सौवर्णं रजतं, कास्यं वा, बलिपात्रं आचार्यहस्तेन त्रिंशदंगुल विस्तारं, भुवङ्गाऽर्धविस्तारं वा, समवृत्तं, तप्तरित एकांगुलोन्नतं, सीमावृत्तं तन्मध्ये पद्मस्यकर्णिकावदष्टांगुलोन्नत्तं, वृत्तं, तत्परितोद्वयंगुलायतैरष्टदलैर्युक्तं कारयेत् ।

द्विप्रस्थै:शुध्दैस्तण्डुलैश्वरूंपक्त्वा, पात्रं प्रक्षाल्प, अधिदैवं बलिरक्षकमभ्यचर्य,संशोध्य,चरुं प्रक्षिप्य, अभिघार्य, अन्नंसंमर्द्य,कर्णिकाकारे द्वादशाऽङ्गुलं, दशांऽगुल, मष्टाऽङ्गुलं वा, उन्नतं, मूले द्विगुणपरिणाहम्, अग्रे अर्धपरिणाहं एवं बलिं कत्वा, देवाभिमुखे निधाय, पूर्ववत्कौतुकाद्वलौदेवंध्यात्वा,योगेशं परब्रह्याणं, परमात्मानं, भक्तवत्सल' मिति मन्त्रैस्समा ऽऽवाह्माऽऽसनाद्यैरेकादशोपचारैरर्चयेत्। उत्त्मे त्रिकालेष्वन्नबलिं, मध्यमेप्रातर्मध्याह्वयोः अधमे मध्याह्न एव, सायं प्रातः अन्नाभावे अक्षतं कुडुपं यथालाभं वा, पात्रे निधाय अक्षते देव माराध्यार्चयेत् ।

  गणिकादेवदासीर्वा आहूय, नृत्त मंडपमध्ये मण्डलमुपलिप्य,अप्सरसश्चावाह्य्, अभ्यच्यं, ताप्सरसस्स्मृत्वा, प्रोक्ष्य, पुष्पं दत्वा, नृत्त्गेयं चकारयेत् ।

पश्वाच्छिष्यमाहूय, कटकांगुमलीयोष्णीषोत्तरीयाऽऽभरणादिभिरलंकृत्य गरुडंबुध्वा, आराध्य,'अतोदेवा' दिना देवमनुमान्य, 'उद्यन्त' मिति बलिमुध्दृत्य, 'देवस्यत्वे' ति शिष्यस्य शिरसि स्थापयेत्। व्यजनैर्धूपदीपैर्हेमादि परिच्छदै र्वितानादिभि र्यथाशक्त्यलंकारै र्भक्तैश्व सहितो गच्छेत्। ततो वाद्यघोष समायुक्तं दिक्ष्वष्टासु नृत्तगेयं च कारयेत् ।

आवरणद्वयाधिके सर्वेषु प्रथमादि प्रत्येकं सकृत, द्वितीये त्रि:, प्रथमे त्रिरेव वा, प्रथमे सकृत्, द्वितीयेद्वि रित्येके । 'प्रतद्विष्णु' रिति प्रदक्षिणं कारयेत् अन्तः प्रविश्य, भूतवीशान्तरेतिष्ठन् पादौ प्रक्षालयेत्। अर्चको हस्ताभ्यां बलिमादाय, देवाऽभिमुखे न्यस्य, कौतुके देवमोंकारेण समारोपयेत्। बल्यग्रमादाय विष्वक्सेनाय दत्वा, तच्छेषं भूतपीठे सोदकं क्षिपेत्।