पृष्ठम्:विमानार्चनाकल्पः.pdf/210

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

174 विमानार्चनाकल्पे महाशस्त्रे पुण्याये' ति परितः प्रागाद्यैशानान्तं 'वराहाय सुभद्राय नारसिंहायेशितात्मने, वामनायसर्वोद्वहाय त्रिविक्रमायसर्वविद्येश्वराये' त्यष्टदिक्षु न्यस्य, पीठादधः परितः पूर्वात् ‘इन्द्राय अग्नये यमाय निर्ऋतये वरुणाय वायवे कुबेराय ईशानाये' ति तत्तद्देशे तत्तन्नाम्ना प्रणवादि नमोऽन्तं पुष्पन्यासं धुवे स्थिते। करोति । आसीने प्रसारितपादस्य परितः, शयानेप्यनंतोर्ध्वे, पादपाश्र्वे कुर्यात् । देव्योश्च नाममन्त्रै:

कौतुकपीठे प्राच्यादि 'मित्रं अत्रिं शिवं विश्व' मित्युत्तरान्तं आग्नेयादि 'सनातनं सनंदनं सनत्कुमारं सनक' मित्यैशनांतं च एकादशोपचारैरष्टो पचारैर्वा नाम्ना बहिर्मुखानभ्यर्च्य, दक्षिणे मार्कंडे, (यं देवेक्षणं, वामे भृगुं तथा, भित्तिपार्श्वे) उत्तरे भृगुं तदुत्तरपार्श्वे ब्रह्माणं, शंकरं च द्वारे द्वारे धात्रादि द्वारदेवन् द्वारपालान् श्रीभूतर्वीशाऽमितान्यथोक्ते देशे पूर्ववदर्चयति ॥ आवाहनपाद्याऽऽचमनस्नानोदकार्थाश्चतस्त्रः, प्रणिध्योर्द्वेच एकैकं वा, गृहीत्वा, साक्षतका (कु) शकूर्चान् विक्षिप्य, अद्भिः प्रणवेन पूरयित्वा, कुडुबसंपूर्णाऽर्घ्यपात्राणि सौवर्णराजततांम्रमृण्मयकांस्याऽन्यतमानि पंच, अलाभे, तदेकं वा, तद्देवं चन्द्रमभ्यर्च्य,पात्राणि संशोध्य, तंडुलव्रीहि माषसर्षपमिश्रितं अक्षतं प्राहुः |

तत्पूर्वसिद्धार्थकं, तिलं, कुशाग्रं, दधिक्षीरघृतं च, प्रक्षिप्य, गायत्र्या ऽऽधावेन पूरयति, अर्घ्यमेतत् पात्रे पुष्पाण्यादाय, जलेन पिष्टं चन्दनं, गन्धगुग्गुल्वगरुकोष्टचन्दनधनगुळमिश्राणि यथालाभंधूपार्थं, पिचुवर्तियुतं घृतेन तैलेन वा दीप्ं च, संभारान् संभरति ।

सूतादि प्रतिलोमाः, पतिताः, पाषंडिनोऽपि अर्चनं हविनिवेदनं च वीक्षितुं नैवार्हन्ति । तस्माद्यवनिकया समावृणोति । आवाहनं स्वस्तिकमेकजानुं वासमासीन उदङ्मुखो पार्श्वेबिंबार्हंतिष्टन्वा, प्रणम्य, आत्मसूक्तं जप्त्वा; बिंबस्य मूर्धनाभिपादेषु क्रमेण 'स्व (सुव) र्भुवर्भू' रितिविन्यस्य, ह्रदये प्रणवेनाऽऽदिबीजाक्षरं च पादमध्ये पीठे यकारं विन्यस्य प्रणिधिमुध्दृत्य, “ दीपाद्यीपमिव ध्रुवबेरात् प्रणधिजले ।