पृष्ठम्:विमानार्चनाकल्पः.pdf/207

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलः 40 171 भरणगंधायैरलंकृत्य, विवाह विषय मंत्रान् लाजहोमादि प्रदक्षिणादिक कर्म देव्योस्सन्निधौ आचार्य एवाचरेत् । पाणिग्रहणे मन्त्रमुच्चरन् दभ्र्र्ण देव देव्योः पाणी स्पर्शयेत् । अश्म संस्पर्शनेि देव्योः दक्षिणपादांगुटेनाऽश्म संस्पर्शयेत् । सप्तर्षादाक्रान्तौ देवस्याभिमुखे नववस्त्रे चोत्तराग्रान् दर्भानास्तीर्यं, यथाक्रमेण संस्पृशेत् । स्तोभागेषणे वैष्णवैर्देवस्थादेख्यो स्तत्तन्मंत्रेण पादयोः प्रक्षिपेत् । ध्रुवदर्शनादीन् नाचरेत् ।

एककाले तयोदेव्यों र्विवाहक्रियाचेत् एकाग्नौ पृथगेवकुर्यादितिके चित् । आचार्यादिभ्यो दक्षिणां दद्यात् । अन्तहोमः वैष्णवान् संपूज्य, सर्वेषामपि गन्धपुष्पमुखवासादीनि दद्यात् । पुण्याहं वाचयित्वा, अंतहोमंहुत्वा, अग्निं नित्यानन्समारोप्य, प्रभूतं हवि निवेद्याऽ पूपादीनि निवेद्य, आचमनमुखवासं च दद्यात् । देवं देवीभ्यां सह यानमारोप्य, ग्राममालयं वा सर्वालंकारसंयुक्तं प्रदक्षिणं श्रुत्वाऽभ्यन्तरं प्रविश्य, शुद्ध स्नपनबि धिना संस्नाप्य, अभ्यर्च, हविर्निवेद्य, प्रणामं कुर्यात्,

एवं हरेर्दैवाहिकोत्सवे कृते सर्वसंपत्समृद्धिर्भवति, तद्ग्रामवासिन्यो

स्त्रियः पुत्र मंगल संयुक्ता भवन्ति । यजमान इष्टान् कामानवाप्य, विष्णोस्सायुज्यमाप्नुयात् । स्नपनं बिंबं बलिबेरं च देवीभ्यांसहितं रहितं वा कारयेत् । कौतुकादि बेरे अक्षिरेखाभूरॅर्खाद्यतिजीर्णा वृद्धे पृष्ठे अंगहीने चोराद्य पहते तद्वत्पुनः बिंबं कृतंचेत्, बिंबं प्रतिष्ठाप्य, विवाहक्रियां नाचरेत् । अर्चाहीने प्रायश्चित्तं कृत्वा, सहार्चयेत्। देव्योः पुनबिंबंकृतं चेत्, प्रतिष्ठाप्य, विवाह क्रियां कारयेत् । योगमार्गेण विरहमार्गेण वा ध्रुवबेरं यत्रैव प्रतिष्ठाप्याऽर्चितं, तत्र पशाद्देवीयुक्तं न कारयेत् । स्नापनोत्सवादीनां विवाहविधिः अथ स्नापनोत्सवबलिबेराणां पृथक् प्रतिष्ठाविधिं वक्ष्ये पूर्वोक्तेन विधानेन बिंबंसलक्षणं कृत्वा, अंकुरानर्पयित्वा, संभारान्संभृत्य, यागशालां कृत्वा, त्र्याणां बिंबानां सह प्रतिष्ठाचेत् सहैवाऽक्षिमोचनं कृत्वा, प्रत्येकं गवादि दर्शन द्रव्याणि दर्शयित्वा, पृथक् पृथक् यथोक्त विधिनाऽधिवासनं