पृष्ठम्:विमानार्चनाकल्पः.pdf/206

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

170 विभानार्चनाकल्पे महाशास्त्रे देयोर्विवाहविधिः अथ देव्योर्विवाहक्रियाविधिं वक्ष्ये - देव्योर्नवबिंब प्रतिष्ठानन्तरं विवाह क्रियां कारयेत् । यजमानो द्विजवेत् गृहे देवालये वा यागशालां कृत्वा, यथाविभवमलंकुर्यात् । तन्मध्ये दक्षिणे श्रीदेव्या वामॅमहीदॅव्याच् औपासनाग्निकुण्डं स्थंडिलं वा कुर्यात्। शुभे मुहूर्ते संप्राप्ते पूर्व देव्याबानीय शुभासने संस्थाप्य, अर्चयित्वा, फलोपहारतांबूलादीनि निवेद्य, आचार्यः परिचारकैस्सह देवमलंकृत्य, यानमारोप्य, शंखभेर्यादिघोष युतं, नृत्तगेयस्तोत्रध्वनि समायुक्तं, यागशालां प्रविश्य, अग्निकुंडा त्पश्चिमे महार्ह संस्तरणपय्कोपरि देवं प्राङ्मुखंसं स्थाप्य, राजबदुपचारं कुर्यात् । यजभानो बान्धवैस्सह देवेशं प्रणम्य, आचार्यं पूजयेत् । आचार्योंदिवं पाद्याद्यध्न्तर्यामभ्यच्यर्, मर्धुपर्क निवेद्य, वैखानस सूत्रोक्तविधिना विवाहंकारयेत् । आत्मसूक्तं जप्त्वा, देवंध्यायन् एकाक्ष रादिसूक्तं विष्णुसूक्तं, पुरुषसूक्तं, वैष्णवं च जपेत् । देवेशं प्रणम्य, प्रतिसरं बध्नीयात् । 'प्रसुमन्ते' (वै०म०ब०३-) ति देवो देवीमीक्षेत, 'अर्भार्तघ्नी' मिति देवंदेवीप्रेझेत, पश्चादाघारं जुहुयात् । कन्यकादानम् श्रीदेव्योः प्रधाने देवसन्निधौ देवीं, विनीय यजमानः स्वात्मानं भूगंस्मृत्वा, ‘मूलप्रकृतिरूपामयोनिजां संकल्प तनयां विष्णवे तुभ्यं ददामी' ति प्रजापतिश्रिया' मिति चोक्त्वा, दद्यात् । हरिण्यप्रदाने यजमानः स्वात्मानं प्रजापतिं स्मृत्वा 'विष्णोः पुराण महिषीं प्रकृत्यंकंभूतां संकल्पतनयां काश्यप हरिणं विष्णवे तुभ्यं ददामी' ति पूर्ववद्दद्यात् । प्रादुर्भावेषु सर्वेषु तत्तद्देवी पितरं संचिन्त्य, तत्सन्नाम्ना दद्यात्। यजमानः शूद्रादिश्चेत्तन्नियोगेन द्विज एवं कुर्यात् । पाणिग्रहणम् एव जलप्रदाने कृते देवस्थदक्षिणवामयो दैव्यौ संस्थाप्य, नवैर्वत्रा