पृष्ठम्:विमानार्चनाकल्पः.pdf/204

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

168 विमानार्चनाक्रल्पे महाशास्त्रे चौकाक्षरादि सूक्तम् क्षत्रदेवत्यम् आलयोपरिस्थ देवानां अग्निकुन्देषु तत्तद्देवत्यमंत्रान् दशपर्यायतो जुहोति । नृत्तगेयवाध्यैरात्रिशेषंनयेत्। आचार्यादयःप्रभाते स्नात्वा आलयमा विश्य देवंप्रणमेयुः मुहूर्ते प्रामे यजमान आचार्यादीन वस्त्रोत्तरीयध्यैर लंकृत्य दक्षिणादानं दद्यात् । पश्चात्सुर्वाग्नीन् विसृजेयुः। आचार्यह शिरसा कुंभुंधार यन् सर्ववाद्यसमायुक्तं सर्वालंकारसंयुक्तमालयं प्रदक्षिनीक्रुत्य कुंभंविमाने देवाऽऽवासं, वैकुंठोद्भव’ मिति चतुर्भिर्मत्रै स्समावाह्य, पश्चात् प्रागादित- द्विमानगत (देवांश्च तत्तन्मन्त्रेणाऽऽवाह्म पश्चात्तद्विमानगत) देवान् तत्त- न्मन्त्रेणावाहयेत् । एवं विमानप्रतिष्ठायां महाप्रतिष्ठाफलं लभते । तस्माद्देवेशेनसार्ध, पृथगेव वा कारयेदित्याह मरीचिः ॥ इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे विमानप्रतिष्ठा विधिर्नाम एकोनचत्वारिंशःपटलः ||३९|| अथ चत्वारिम्शह पतलह अथ देव्योः, श्रीभूम्योः पृथक् प्रतिष्ठाविधिं वक्ष्ये - ध्रुवे देविसमायुक्ते वियुक्ते वा कौतुकस्य देव्योः स्थापनं कार्येत्। कौतुके देवीसमायुक्ते वियुक्तेवापि औत्सवम् देविभ्यां सहितम् स्थापितंचेत तद्ग्रामस्य सत्मुद्धिर्भवति; यद्द्रव्येणकृतंबिंबं तद्द्रव्येण देव्यौ च कारयेत् ।हीनाधिकद्रव्यैर्न कारयेत् । स्थान केस्थानकं, आसने चासनं, देवस्यबाहुमानं स्तनांतं वा स्थानकस्य, आसनस्यकर्णात मास्यांतं वा यथोक्तलक्रमेण देव्यौ सम्यक् प्रकल्पयेत्। स्थापनद्ववसात्पूर्व, अंकुरानर्पयित्वा, पूर्ववदक्षिमोचनाधिवासी च कृल्वा, आलयाभिमुखे यागशालांतन्मध्ये दक्षिणे, श्रीदेव्याः शय्याबेर्दि द्विहस्तायतविस्तारा तत्तुरीयांशोत्सेधां तत्प्राच्यामौपासनाग्निकुण्डं तत्प्राच्यां स्नानश्वभ्रं च कारयेत् । तन्मध्ये चोत्तरे शय्यावेर्दि, तथैवमहीदेव्यास्त- यज्ञालये पश्चिमे विष्टरे देव्यौ संस्थाप्य, वास्तुहोमं हुत्वा, पर्यनि पश्च- गव्याभ्यां शोधयित्वा, द्वयोरौपासनानिकुण्डयोराघारंहुत्वा, द्वौ कुंभौ संगृह्म,