पृष्ठम्:विमानार्चनाकल्पः.pdf/203

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलः 39 167 सभ्यादि पंचाग्रीन् परिकल्पयेदेतन्मध्यमं सभ्याग्निमेकमेव कल्पयेद- धममाधक्षते। सर्वेश्वधारं हुत्वा द्रोनद्वयपुर्णं कुम्भं संगृह्य, त्रिगुणे नैकेनवा सूत्रेण वेष्टयित्वा, 'शुचीवोहव्य' (ऋ०५-४-२४) इति प्रक्षाल्य, 'धारास्वि' त्यपामुत्पवनंकृत्वा, अद्भिरापूर्य, 'इदमाप: (वै०मध्य०१) शिवा' इत्य भिमृश्य, वस्त्रयुग्मेनावेष्ट्य, पंचरत्नानि सुवर्ण वा अष्टमंगल पंचायुध- वर्णचिहूनि पृथक् पृथक् विष्णुसूक्तेन प्रक्षिप्यू, अभ्यन्तरं प्रविश्य, धृव- बेरस्याभिमुखे धान्यराशौ कुम्भंसन्यस्य, आचार्य उत्तराभिमुखो भूत्वा व्राह्य मासनमास्थाय, प्राणायामं कृत्वा, समाहितो देवंध्यायन ध्रुवबेरात्कुम्भेंभसि तद्वीमानम् संयगावाःयेत | यस्माद्देवेशो विष्णुः सर्वेषांप्रानभुतः सर्वावासश्व तस्माद्वी- मानस्यध्रुवादावाहनम्, तस्मिन्नुद्वासनं च कारयेत् | पश्वाच्छकुनसूक्तम् समुच्चार्य, कुंभमानीय, तस्यालयस्याऽभिमुखे सभ्याग्निकुन्दस्य पश्चिमे धान्यवेद्यां वस्त्रेष्णाऽस्तीर्य, तस्यां कुंभं सन्यस्य, आलयं परितश्चतुर्विशति कलशन्यासार्थं धान्यैः पङ्क्षत्तिं कृत्वा; तस्या- मैशानादि पंचगव्यघटतमधुदधिक्षीरगंधोदकाऽक्षतोदकफलोदककुशोद- करत्नोदकजप्योदकसवौषध्युदकानि प्रत्येकमुपस्नान संयुतानि यथा क्रमेण विन्यस्य, अधिदेवान् समाराध्य यथोक्तैर्मत्रै र्विमानस्य पादमूले प्रदक्षिणा- मंत्रै रध्र्यान्तमभ्यर्च्य, हेमादि पात्रे तंडुलोपरिन्यस्तप्रतिसरं त्रिधृत स्वस्ति- सूक्तेनाऽभिमृश्य, ‘स्वस्तिदा विशस्पति' रिति तस्यपादमूले बध्नीयात् । विमानस्यशयनार्थं तत्परितः शय्यावेदिं कृत्वा, हस्तमात्रविस्तारां तालोत्सेधां द्विभागोत्सेधां भागोत्सेधां वा व्रीहिभिः कृत्वा, नवैर्वस्त्रैः स्थूल्यादिविमानान्त मधिष्टानांतं, कपोतान्त वा निच्छिद्र परिवेष्ठय, "यद्वैष्णाव" मिति शयनं संकल्प्य; चतुर्दिक्षु चतुर्वेदाध्ययनं कारयित्वा, सभ्याग्निं समुज्वाल्य, हौत्रं प्रशंस्य, दक्षिनप्रणिधौ 'विमानं विष्णुमयं देवाऽऽवासं वैकुण्ठोद्भव’ मिति, उत्तरप्रणिधौ आलयांऽगदेवान् न्यक्षादीन् इन्द्रादि लोकपालाँधाऽऽ बाह्य, आवाहन क्रमेण जुष्टाकारस्वाहाकारं च कृत्वा पश्चाद्वैष्णव (विष्णुसूक्तं पुरुषसूक्तं तदालयगतदेवानां मन्त्राँश्च जुहुयात्) मिंद्रदेवत्यादि तत्त-दंगमंत्रैस्सहन्यक्षादि देवत्यमंत्रांश्च आवसथ्ये