पृष्ठम्:विमानार्चनाकल्पः.pdf/202

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

166 विमानार्चनाकल्पे महाशास्त्रे अस्मिन्विमानांगदेवानां, विमानपालद्वारपालाना, श्रीभूम्यादि सव परिषदां च, प्रतिमाकरणे, तत्राssयव्ययाध्यं नेष्टं स्वप्रधाने बेरे विमाने च प्रतिष्टादिवसात पूर्वमंकुरानर्पयित्वा, आलयाभिमुखे दक्षिणे पश्चिमे चोत्तरे वा विमानंपरतो वा प्रपांकृत्वा, तोरणाध्यैरलंकृत्य, प्रतिष्टादिवसात्पूर्वं तृतीये द्वितीये वा अहनि, विमानदेवानामक्षिमोचनममंत्रकं समंत्रकं च कुर्यात् । अक्षिमोचनार्थ तस्यालयस्योत्तरे कुंडमौपासनं कृत्वा, वास्तु होमं हुत्वा, पर्यग्नि पञ्चगव्याभ्यां आलयं संशोध्य, पुण्याहं वाचयित्वा आलयाभि- मुखे चौपासनाग्निकुन्दं कृत्वा, आधारान्ते वैष्णवं विश्णुसूक्तम्, पुरुशसूक्तम्, महीभूतदेवत्यं, ददभयः स्वाहाध्यंगहोमस्थूप्याद्यौपान पर्यन्तांऽगानां अभि- जुहुयात् । "स्तूपिमुकुळाय, पञ्चाय, फ़लकायै, पञ्चाय, कण्ठाय, क्षेपणाय, वेतराय, क्षेपणाय, कण्ठाय, क्षेपणाय, पङ्कजाय, कुम्भाय, पङ्कजाय, क्षेपणाय, पञ्चाय,

फ़लकायै, अवलज्ञाय, कुम्भाय, शक्तिध्वजाय, पञ्चाय, उभाय, नासिकायै,

फ़लकायै, दण्डाय, म्रुणाळिकायै, मुष्ठिबन्धाय, वाजनाय, उत्तराय, कण्ठाय, ऊहप्रत्यूहाय, वेदिकायै, भूमिकल्पाय, वाजनाय, प्रत्ये, अन्तरिताय, लिङ्गाय, शक्तिध्वजाय, नासिकायै, कर्णपालिकायै, कपोताय, वाजनाय, पङ्कजाय, वाजनाय, उत्तराय, बोधिकायै, वीरकाण्डाय, पलकायै' वेत्राय, उत्संधिकाय, ध्रुजे, कुम्भाय, धृज आस्थाय, पञ्चाय, भीरवे, स्कन्धाय, पञ्चमालायै, स्तंभाम्तराय, वेदिकार्यै, महापट्टिकायै, कण्ठाय, कुमुदाय, जगत्यै, 'उपानाय, (६३ अग) स्वाहे' तिव्याहृत्यन्तं हुत्वा, विमानं परितः प्रागादिचतुर्दिक्षु सबत्सांगां धृतं मधु क्षीरं अष्टधान्यराशींश्ध संकल्प्य, प्रच्छत्रपटंकृत्वा, देवानां तत्तान्मन्त्रेण क्षिमोचनं कृत्वा, तत्प्रच्छन्नपतम्विस्रुज्य, गवादी दर्शन द्रव्याणि दर्शयित्वा, अग्निम्विस्रुज्य, तत्काले तद्विमान शुद्ध्यर्थ, कुम्भं सूत्रेण वस्त्राभ्यां च वेष्टयित्वा, पूतवारिणाऽऽपूर्य, सुवर्णमक्षतान् कूर्चविक्षिप्य, 'इन्दमापःहशिवा' इत्यभिमन्त्र्य, विश्णुसूक्तेन आपो हिरण्य पवमानै र्विमानं समभ्युक्ष्य, पुण्याहं कारयेत् । प्रतिष्टोक्त दिनात्पूर्वे अपराहे प्रागादि यज्ञशालां संशोध्य, प्राच्यां मुखमंटपपूर्वे सभ्य माहवनीयं च, विमानस्य दक्षिणभागे अन्वाहार्य, पश्चिमे गार्हपत्यं, उत्तरे चावसध्यं च संकल्प्य, तुदालयोपरिस्थ देवानां प्रत्येक मौपासनाब्रिकुण्ड तत्तदभिमुखे विमानं परितः कल्पयेत्, एतदुत्तमम् ।