पृष्ठम्:विमानार्चनाकल्पः.pdf/200

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विमानार्चनाकल्पे महाशास्त्रे 164

            ब्रह्माणं, चतुर्मुखं चतुर्बाहुं तमहाटकसन्निभम्  विद्युद्दामपिशंनार्चि - 

र्जटामुकुटसंयुतं, कुण्डलांगदहारादिभूषणभूषितम्, आगुल्फतललम्बी - शुक्लाम्बरं मेखलोपवीतोत्तरीयकृष्णाजिनशुक्लमालासमायुक्तं दक्षिणा ऽऽदक्षिणकराभ्यां अक्षमालाकमंडलुधरं दक्षिणंपूर्वकरं सकूर्च मभयं वामकरं कुशग्रंधिधरं| अथवा दक्षिणकरं स्रुवधरं वामकरमाज्यस्थालीधरं . अथवा दक्षिणं पूर्वकरंस्रुग्धरं वरदंवामकरं गोश्रुन्गधरं कारयेत् । आसनंचेत्सिंहासनस्योर्ध्वे पझासने समासीनं कारयेत् । स्थानपीठोपरि देवीभ्यांसहितं, रहितं वा, कारयेत् । तस्य शयनं न कुर्वीत ।

           दक्षिणे देर्वीभारतीं श्वेताभां जटामकुटान्वितां द्विभुजां रक्तवस्त्रधरां

बामे सावित्री रक्ताभां जटामकुटमंडितां द्विभुजां श्यामवस्त्रधरां अन्यत्सर्वं श्रीभूम्योरेव कारयेत् । द्वारपार्श्वयोः शंखलिखिता, मुखमन्टयद्वारे तापस सिद्धिदौ, अंतर्म डले पूर्वादीशानपर्यंतं भृग्वादि सप्तर्षीन्, सनकं च, अग्रेशहनं हंसराजं, शैषिकंकुशध्वजम् अकल्मषं नृपं पीठ्दैवतं महाभद्रं, अन्तमंडलद्वारेना- सत्यदस्त्रौ, कुत्वा, कौतुकपीठं तद्रूपं कुर्यात्, अंकुरानर्पयित्वा पूर्व- वद्वास्तुहोमांऽगेहौमाहुत्वा, पञ्चाग्नवाघारंहुत्वा, कुंभंसंसाध्य ब्रह्माणं सपरि शक्तंध्यात्वा, आवाह्य, सप्तभि:कलशैः, संस्नाप्य, शयने समारोप्य प्रतिसरं बध्वा, तन्मंत्रेणशाययित्वा, पञ्चाग्नौ हौत्रं प्रशंस्य, 'ब्रह्माणं प्रजापतिं पितामहं हिरण्यगर्भम्' इति ब्रह्माणं, ’भारतीं वाणीम्ब्रह्मपत्नींसरस्वती’ मिति भारतीं, 'गायत्रीं वेदमातरं सर्वदेवत्यां सावित्री' मिति सावित्रीं, तद्दक्षिणप्रणिधौ समावाह्य उत्तरप्रणिधौ अन्यपरिवाराणां तत्तन्नाम मंत्रेण आवाह, तथैव- जुष्टाकारस्वाहाकाराकृत्वा, श्वेताब्जशतं घृतेनाप्लुत्यं, गायत्र्या जुहुयात्।

'ब्रह्मजज्ञानं, हिरण्यगर्भ इति द्वाभ्यां ब्रह्मसूक्तं षोड्छकृत्वोहुत्वा, पारमात्मिकमकारांश्च सर्वान् जुहुयात्। तद्दक्षिणे कुण्डेपावकानो महोअर्ण' (ऋ०१-१-६) इति मंत्राभ्यां सूक्तसारस्वतं दशकृत्वः उत्तरे आग्निकुण्डे सावित्रीमष्टोत्तरशतं हुत्वा, पञ्चाग्नवन्यपरिवाराणां मंत्रान् दशकृत्वो हुत्वा, चतुर्दिक्षु चतुर्वेदाध्ययनेन रत्रिशेषं यापयेत् ।।

        प्रभाते स्नात्वा यागशालामागत्य, ब्रह्माणं देव्यौ च प्रणवेनोत्थाप्य,

अभ्यर्य, अभ्यन्तरेपीठे रत्नादीनि संन्यस्य कुंभबिंबं च समादाय, सयप्रदक्षिणं कृत्वा, अभ्यन्तरं प्रविश्य, ब्रह्मस्थाने ‘ब्रह्मजज्ञान' (य सं-