पृष्ठम्:विमानार्चनाकल्पः.pdf/193

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलः 37 157 तद्दक्षिणे नरनारायणयोर्यागशालां तन्मध्ये शय्यावेदिं तन्मध्ये चतु रग्नीन् संकल्प्य, पश्चिमेअच्युतमूर्तेर्यागशालां तन्मध्ये शय्यावेदिं परितश्र्वतुरग्नीन् , तत्पश्चिमे नृसिंहस्य यागशालां तन्मध्ये शय्यावेदिं परितश्वतुरनोन् परिकल्प्य, उत्तरे अनिरुद्धमूर्तेयगशालां तन्मध्ये शय्यावेदिं परितश्चतुरस्नीन् परिकल्प्य, तस्योत्तरे वाराहस्य यागशालां तन्मध्ये शय्यावेदिं परितश्चतुरग्नीन् परिकल्प्य, अन्यत्सर्वं पूर्ववत्कुर्यात् । आलयस्योत्तरे श्रामणकाग्निकुंडं कृत्वा सूत्रोक्तविधिनाचा स्तुहोमं हुत्वा सर्वत्रपर्यग्निपञ्चगव्याभ्यां संशोध्य प्रोक्षणं:प्रोक्ष्य अधिवासनगतान् देवान् आदायाभिषिच्य व स्त्रोत्तरीयाद्यौर्विभूष्या अष्टपचरैरभ्यर्च आलयमावेदथ तत्तद्यागशालायां पश्चिमे विष्टरे प्राङ्मुखान् देवान् संस्थाप्य सर्वेष्वग्निकुंडेषु आघारं हुत्वा सर्वेषां आचार्यः(योः) पूर्ववग्रत्येकं कुंभपूजनं कुर्या(र्युः)त् । यजमानः आचार्यान् वस्त्राद्द्ये रलं कुर्यात् कुंभानादाय तंतुनाषरिवेष्ट्य प्रक्षाल्य नादेयैरा धावैःपूरयित्वा पृथक् पृथक् वस्रयुग्मेनाऽऽवेष्ट्य प्रत्येकं नवरत्नानि सौवर्णानि अष्टमंगल पंचायुधवर्णचिह्नानि च विन्यस्य, तत्तदारे, बालागारे वा, देवाभिमुखे धान्यराश्युपरि कुंभान्संन्यस्य, पूर्ववध्यात्वाऽऽवाह्य, पश्र्वात् स्थाप कानाहूय, आदिमूर्त्यादीन् यथाक्रमेणाऽऽचार्या:तत्तत्समादाय पुरतेगच्छेयुः तत्तद्यगशालामासाद्य स्नानश्वभ्रप्रतिष्ठाध्य, सप्तभि:कलशौः संस्नाप्य वस्त्रोत्तरीयाभरणैरलंकृत्य, अभ्यर्च पुण्याहान्ते प्रतिसरंबध्वा, तत्तद्वेद्यां धान्योपरि पञ्चशयनानि, वासांसिवाऽऽस्तीर्य तथैवशाययित्वा उत्तराछादनं कृत्वा होतृन् सर्वान् वस्त्रोत्तरीयायैरलंकृत्य तत्तत्प्रधान होमे हौत्रप्रशंस्य, तथैवाऽऽवाहनादीनि कुर्यात् विष्णमूतेःशयानस्य सभ्यं, पुरुषमूर्ते राहवनीयं, सत्यमूर्तेरन्वाहार्यं, अच्युतमूर्तेर्गार्हपत्यं; अनिरुद्धमूर्तेरवसथ्यं; नरनारायणयोरन्वाहार्य; नृसिंहयगार्हपत्यं; वाराहस्याऽऽवसथ्यं; प्रधानाग्निरित्युच्यते । पक्षादादिमूर्तेस्सभ्याग्निं परिस्तीर्य, परिषिच्य, पालाशेध्मन् गृहीत्वा मूलाग्राभ्यां घृताक्तान्, विष्णुगायत्र्या जुहुयात् उषभृता वैष्णव माज्येन, जुह्वापसाज्यंवैष्णवेन, स्त्रुवेणाज्यमादाय, विष्णुसूक्तम् अग्निहोत्रहविण्या पुरुषसूक्तं च, दशपर्यायतो यजेत्।