पृष्ठम्:विमानार्चनाकल्पः.pdf/188

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 विमानार्चनाकल्पे महाशास्त्रे

                     अथ विमाने द्वितले अधस्तले विष्णुमादिमूर्तिं भोगासनमार्गेण प्रतिष्ठाप्य तत्परितोऽलिंद्रं चतुर्दिक्षु चतुर्दिक्षु चतुर्द्वारयुतं यत्प्रधानं तन्मुखमंटपंसंयुक्तंकृत्वा, तत्प्राच्यामलिंद्रे दक्षिण भागे भितिमाश्रित्यपुरुषं प्राङ्मुखं, दक्षिणैऽलींद्रे दक्षिणामुखंसत्यं, तथैव पश्चिमे अच्युतं, उत्तरे अनिरुद्धं, देवीभ्यां सहितं वा कृत्वा, ऊर्ध्र्वतले योगेशं योगशयनं वा संस्थाप्यार्चयेत् ।
                                                                 पञ्चमूर्तिप्रतिष्ठाक्रमः
                      पञ्चमूर्तिष्टाचेत्-विमानंदिनलंकृत्वा, ऊर्ध्वतले विष्णुमादिमूर्तिम्, अधस्तले पुरुषादीन् पूर्ववत् स्थापयेत् । अथवा द्वितीयतले विष्णुं पूर्ववत् संस्थाप्याऽधस्तले अभ्यन्तरंघनसुयुक्त तत्परितः सालींद्रक्षु चतुर्द्वारयुतं प्रधानँउखमण्टपसंयुक्तंकृत्वा, अलींद्रे प्राङ्मुखादीन् पुरुषादीन् देवीभ्यांसहितंरहितं वा स्थापयित्वाऽर्चयेत् ।
                         एवं यथोक्तविधिना सर्वाणिधुवबेराणिकर्तुमशक्तश्वेत् उक्तविमानेष्वेकस्मिन् विमाने चैकतलप्रासादं नवहस्तादहीनं निश्र्वित्य तस्मिन्नेकाशीति विभागं कृत्वा तन्मध्ये नवभागं गर्भागारं तत्परितः षोडशभागमभ्यन्तरं तत्परितश्र्चतुर्विंशतिभागमलिंद्रं तद्वाह्ये द्वात्रिंशभ्दागंबाह्यकुड्यं अथवा तदेकविंशतिशतभागंबाह्यकुड्यं कारयेदित्येके ।
                        तत्समं त्रिपादमर्धं वा, मुखमण्टपंदक्षिणपश्चिमोत्तरं मूर्तीनां द्वारदेशे जालकैर्युक्तं बाह्यंभित्तिविस्तारसम मभ्यन्तरभित्तिविस्तारं सप्तदशोत्सेध मर्धाधिकं, पादोन द्विगुणं, द्विगुणं वा, विमानोत्सेधं तदष्टभागं कृत्वा, एकांशमधिष्ठानं, तदिगुणंस्तंभायाम मेकांशांप्रस्तरं, बाह्यभित्तौसंयोज्य अभ्यन्तरभित्तएरुपरिकंठमेकांशं द्व्यंशंशिखरं, एकांशापिण्डि (स्थूप) केत्येवमेकतलप्रासादंपरिकल्प्य, तस्मिन् गर्भालये दैविके भागे विष्णुमादिमूतिं भोगासनमार्गण ध्रुवबेरं प्रतिष्ठाप्य, पुरुषादिमूर्तीनामादिमूर्तेभिन्नत्वात् ध्रुवबेरं विना आदिमूर्त्तेरनुरुपं विष्ण्वादीनि सर्वाणि कौतुकबेराणि विधिना कारयित्वा, गर्भागारे ब्रह्नपदे विष्णु मादिमूर्ति, मलिंद्रेद्वारदक्षिणेप्राङ्मुखंपुरुषं दक्षिणे सत्यं, पश्र्चिमे अचयुतं, उत्तरे अनिरुध्दं, द्वरस्चोत्तरपार्श्र्बेशयानं, दक्षिणे सत्यस्य पश्र्चिमे अच्युतस्चोत्तरे नृसंहम्, उत्तरे

अनिरुद्धस्य पश्चिमे वाराहं स्थापयेत् ।