पृष्ठम्:विमानार्चनाकल्पः.pdf/174

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

138 विमानार्चनाकल्पे महाशास्त्रे

(ऋसं५-४-२४) इति प्रक्षाल्यनादेयं जलं दिवासंगृह्य रात्रौचेदग्निसन्निधावेव संगृह्म ’इदमापःशिवा’ (वै०मु०प्र०१) इति वस्त्रेणोत्पवनं कृत्वा 'धारा’ (वै०म०प्र०१) स्विति कुंभं जलेनापूर्य उशीरादिगन्धैर्वासयित्वा, दुकूलाभ्यां  क्षौमाभ्यां सूक्ष्मकार्पासवस्त्राभ्यां वा कुम्भमावेष्ट्य्॥
                                                      कुंभे निक्षेप्यद्रव्याणि
      तस्मिन् कुशकूर्चाक्षताश्वत्य पल्लवानि विन्यस्य पद्मरागवज्रवैडूर्य  मौक्तिकमरतकपुष्परागचंद्रकान्तगोमेधिकेन्द्रनीलानी' ति एतानि नवरत्नानि, रत्नानामलाभे प्रत्येकं सुवर्णं वा, श्रीवत्साद्यष्ठमंगलानि, गरुडगजकूर्मरूपं च वर्णचिह्नानि,स्रुक्स्रुवकमंडलुजूहूपजुहूपभृत्་ छत्रचामरांऽकुशध्वजतुलातोदयुगलांगुलादीनि च, मेघविद्युल्लतां च, सुवर्णेन एकांगुलादहीनानि कृत्वा अलाभेसुवर्णशकलानिवा तत्तद्रुरपंध्यात्वा, पृथक्पृथक्  विष्णुगायत्र्या प्रक्षिप्य, आलाये बालागारे देवाग्रे धान्यराशौ कुंभं सन्यसेत्।
          धान्यराशि स्त्रिविधो भवति । षड्द्रोणमुत्तमं द्रोणत्रयंमध्यमं, द्रोणद्वयमधमं, बालागारं चेत् तंदेवमाराध्य निवेद्य॥
                                             
                                                           कुंभे आवाहनक्रम:

आचार्यस्तस्य दक्षिणेचोत्तराभिमुखोभूत्वा, ब्राह्ममासनमास्थाय, विष्णुर्मांरक्ष' (वै०म०३) त्वित्यात्मसूक्तं जप्त्वा, समाहितोध्यानमारभेत्॥

                                                           आवाहनांगासनादि

स्वस्तिकासनं कुर्यात्, दक्षिणपादमूर्ध्वं वामपाद मधश्व कृत्वा जान्वन्तरे तदंगुष्ठौनिगुह्य, शिश्नवृषणावपीडयन्, निवातगतदीप इवॠजुकायः किंचिदुन्नमितवक्त्रो, दंतैर्दंतान संस्पृशन्, नासाग्रस्थेक्षणश्वैवा་ ऽऽसनमासीनो यथाबलं प्राणायामं कुर्यात् ॥

                                                       रेचकादि स्वरूपं कुम्भेन्यासः

त्रिविधः प्राणायामः रेचकपूरककुंभक इति । निश्वासविसर्गो रेचको, निश्वासध्यानं पूरको, निश्वासनिरोधः कुंभकः इत्येवं प्राणायामंयोगशास्रोक्तमार्गेण कृत्वा, हृदये बीजाक्षरं न्यस्य प्रणवे नवेष्टयित्वा, कुम्भजले अर्धचन्द्राकारंशुद्धस्फटिक संकाशं मध्येऽष्टदलोपेतं पद्मं तन्मध्ये