पृष्ठम्:विमानार्चनाकल्पः.pdf/173

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलः 31

                                                                                                                                        137
    ततस्सभ्याऽग्निकुण्डे 'मयिगृह्णामी' (वै० म० प्र०१) त्यग्निंप्रणीय ततःपौण्डरीकाग्निकुंडे 'धृतप्रतीक' (वै०म०प्र-१) इतिअग्निंप्रणीय । अन्येषु 'जातवेद' (वै० म० प्र०१) इत्यग्निं प्रणयेत ॥
                                                              आघारविशेषः
         पश्चादाघारान्तरे विशेषो वक्ष्यते-अग्निकुण्डाना मूर्ध्ववेद्यामिन्द्रादि दिग्देवान् तत्तत्स्थाने दक्षिणवेद्यधस्तात् ब्रह्माणम्, उत्तरेसोममभ्यर्च्य गार्हपत्योत्तप्रणिधौ अग्न्यादि देवानामावाहनान्ते गार्हपत्ययज्ञं यज्ञदैवतविश्वान् देवान्, ‘ओंभूःपुरषमच्युत' मिति ।
          अन्वाहार्ये अन्वा हार्ययज्ञं यज्ञदैवतविश्वान्देवान्, ओंभुवःपुरुषं, सत्य' मिति ।
       आहवनीये आहवनीययज्ञं यज्ञदैवतविश्वान् देवान् ’ओंसुवःपुरुषंपुरुष' मिति; आवसथ्येऽवसथ्य यज्ञंयज्ञदैवतविश्वान् देवान् ’ओंमहःपुरुषमनिरुध्द' मिति; सभ्येसभ्ययज्ञंयज्ञदैवतविश्वान्देवान् 'ओंजनःपुरूषंविष्णु’ मिति;

पौंडरीकेपौंडरीकयज्ञं यज्ञदैवतविश्वान् देवान् 'ओंतपः पुरुषंवासुदेव' मिति: श्रामणकेश्रामण काग्रियज्ञंयज्ञदैवतविश्वान् देवान् 'ओंसत्यंपुरुषंनारायण' मित्यावाह्य परिवाराणांहोमेषु औपासनयज्ञंयज्ञदैवतविश्वान्देवान्आवाह- यामीत्यावाह्य, तथैवाज्यंनिरूप्याऽऽहुतीर्हुत्वा, षड्होमेषुवैष्णवं हुत्वा, एवमेव आघारं जुहृयुः ॥

                                            एकाध्वर्युपक्षेऽन्तरागमनेविशेषः
         आघारान्ते पक्वहोमात्पूर्वं तेषामंतरंनव्रजेत्, अध्वर्युणामभावे चैकाध्वर्युश्वेत् 'प्रासावी' रित्यन्तेः प्रवाहणं कृत्वा पुनःपरिस्तीर्य होममाचरेत, अस्य प्रायश्चित्तं वैष्णवं यजेत् ॥
                                                  प्रधान कुंभलक्षणादि
पश्चात् कुम्भपूजां समाचरेत् । द्वात्रिंशत्प्रस्थसंपूर्णंसौवर्णं राजतं ताम्रं मृण्मयंवा कुंभं संगृह्य मृण्मयं चेत्    खण्डस्फुटित कालरहितं पक्काल र्कफलाकारं सम्यग्दग्धं नवंकुंभंसमादाय यज्ञालये वायव्ये संभारस्थाने

प्राङ्मुखमास्थाय इषेत्वोर्जेत्वा' (यजु-सं-१-१-१) दि जपन् त्रिवृतेनै केन वा सूत्रेण तिलान्तरम् यवान्तर, मंगल्यन्तरं वा, परिवेष्ट्य् 'शुचीवहृव्या'