पृष्ठम्:विमानार्चनाकल्पः.pdf/171

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलः 30

                                                                                                                                          135
                                                     परिवाराऽग्निकुण्डादिकम्
          अथवा देवेशस्याऽस्ययज्ञस्यपञ्चाग्नीन्; पौण्डरीकाग्निं च, कृत्वा यागशालां परितश्चैकभक्तिवुतां प्रपां कृत्वा, इन्द्रेशानयोर्मध्ये वीसस्य, इन्द्रग्न्योर्मध्ये चक्रस्य, यमपावकयोर्मध्ये श्रीभूतस्य, यमानिलयोर्मध्ये ब्रह्मणः

नीलवरुणयोर्मध्ये पुण्यस्य, वरूणोदानयोर्मध्ये रत्र्यातीशस्य, वायुसोमयोर्मध्ये शंखस्य, सोमेशानयोर्मध्ये शांतस्य, प्राग्द्वारादुत्तरे मणिकसंध्ययोर्दक्षिणे न्यक्षस्य, दक्षिणद्वारपूर्वे विखनसतापसयोः पश्चिमे विवस्वतः, पश्चिमद्वारदक्षिणे किष्किंधतीर्थयोरुत्तरे मित्रस्य, उत्तरद्वारपश्चिमे विकटशेषयोः पूर्वे क्षत्तुः प्राच्यां दक्षिणोत्तरयो नित्यऽक्षयोर्दक्षिणोत्तर योर्ध्वजशंखयोश्वौपासनाग्निकुंडानि (कृत्व) कुर्यात्, तदुत्तमोत्तमम् ।

            विमानपालद्वारपलाँश्वविनाकारयेदुत्तममध्यमम् । महाभूतशंखध्वजपा (व) कोर्जुनान् विना कारयेदुत्तमाधमम्। ब्रह्मेशपुण्यभृगून्विनाकार-येन्मध्यमोत्तमम् । श्रीभूतचक्रवीशान्विना कारयेन्मध्यममध्यमम्, लोकपालान्विनाकारयेन्मध्यमाधमम् । देवेशस्यैवपञ्चाग्नीन्कारयेदधमोत्तमम् । त्रेताग्निविधानेन गार्हपत्याहवनीयग्नीन् कल्पयित्वा एतेषां प्रधाने गार्हपत्याग्नौ सभ्यवत् सर्वं कुर्यात् एत दधममध्यमम् । सभ्याऽग्निमेकमेव कृत्वा सर्वहोमानस्मिन्नग्नौजुहुयादेतदधमाधमम् आचक्षते । सर्वत्र पौण्डरीकाग्निं कारयेदिति केचित् । एवं नवधा  भवति, अन्यत्सर्वं समानम् ॥
                                           बेरपञ्चकस्य युगपत्प्रतिष्ठायामेकुम्भादि विधानम्
            ध्रुवकौतुकस्नपनोत्सवबलिबेराणां सह प्रतिष्ठाचेत् एकशालामेकवेदिं सहैवहोममेककुंभं च कुर्यात् । तेषां पृथक् चेत् पृथगेवहोमाद्यं सर्वं कर्तव्यम् ।
               प्रादुर्भावानामाविर्भावानां च, भक्त्याऽस्मिन् विमानेस्थापनं यदि चेत् मानांगुलेन सप्तांगुलं समारभ्य, दव्यंगुलवृद्द्या एकोनषष्ट्यंगुलान्तं सप्तविंशतिभेदाभवन्ति । एतेष्विष्टमानं विनिश्चित्य प्रतिमां कृत्वा, मुखमण्डपे, निर्मले अन्यस्मिन्यथेष्टे देशे वा, रत्नानि सन्यस्य, एक बेरस्थापनामार्गाणप्रतिष्ठाप्य, तत्तन्मूर्तीः मन्त्रेणविभवानुरूपमर्चयेत् ।

आलयाभ्यन्तरे सह प्रतिष्ठाचेत् स्वपनं शयनं च पृथगेव कृत्वा, एक