पृष्ठम्:विमानार्चनाकल्पः.pdf/170

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'34 विमानार्चनाकल्पे महाशास्त्रे

     आहवनीयं च, आहवनीयं चौपासनाग्निकुण्डवत् कुर्यात्; याम्ये अन्वाहार्यमर्धचन्द्राकृति (र्दक्षिणे) भागमूर्ध्ववेदिविस्तारं, दक्षिणोत्तरं त्रिंशदंगुलं, प्राक्पश्चिमं षष्ट्य्गुलं द्विवेदि सहितम्, एकैकं भागविस्तरोत्सेधं, मध्ये निम्नंत्रिकोलकं; तत्पश्विमे गार्हपत्यं पूर्णचन्द्राकृति  उर्ध्ववेदिविस्तारं स्तपाधिकत्रिंशदंगुलम् द्विवेदिसहितम्, एकैकंभागविस्तारोत्सेधं, मध्ये-निम्नंषडंगुलम्, उत्तरे चावसथ्यं त्रिकोणं, षड्यवाधिकाष्ट चत्वारिंशदंगुलं तदेकभुजयुतोर्ध्ववेदिकं, द्विवेदि सहितम् एकैकं भागविस्तरोत्सेधं, मध्ये निम्नंत्रिकोलकंप्रागग्रंकारयति ।
    शय्यावेद्याः प्राच्यमाहवनीयस्य पश्चिमे स्मयाग्निकुण्डं त्रिवेदिसहितम्, एकैकंभागविस्तारोत्सेधम्, उर्ध्ववेद्यायामं द्वात्रिंशदंगुलं, मध्येवेदिविस्तारंपञ्चांगुलं द्विचत्वारिंशदंगुलमधोवेद्यायामं, पंचदशांगुलं मध्ये निम्नम्, अष्टांगुलं, दशाङ्गुलं (द्वादशाङ्गुलं) वा कारयेदाग्नेय्यां पौण्डरीकं त्रिवेदिसहितं सुव्रुत्तं उर्ध्ववेदिविस्तारायामं सप्ताधिकत्रिंशदङ्गुलं एकैकंभागविस्तारोत्सेधम्, अंधोवेदिविस्तारं षडंगुलं, प्रागादि षोडशदलैर्युतं, मध्ये निम्नमष्ठांऽगुलं, दशांगुलं वा करोति ॥


                                              स्नानाद्यर्थं श्वभ्रादिकरणम्
    ऐशान्यामाहवनीयवत् द्विवेदिसहित, तद्वेरपीठात् प्रतिदिक् चतुरंगुलाधिकाविस्तारं स्नानायश्वभ्रं च उतरे वारिमार्गं कारयेत्। नैर्ॠतपदे देवस्याऽलंकारार्थं द्विहस्तायताविस्तरां, तालोन्नतां चतुरश्रांवेदिं क्रुत्वा, वायव्ये यागोप करण द्रव्यविन्यासार्थं चतुर्हस्तायतविस्तारां, भागोन्नतां, वेदिंकुर्यात्॥
                                परिवारदेवानांपृथगालयेआहवनीयकुण्डकरणम् 
    सर्वेषां परिवाराणां तत्तदालयाभिमुखे दक्षिणे वा आहवनीयाग्निकुंडं, कुम्भपूजनं, हौत्रशंसनं मूर्त्यावाहनादिकं च(चा) चरेत्। अथवा देवेशस्य मूर्त्यावाहनकाले परिवारदेवानांअध्वर्यवश्व  तत्तन्मंत्रान् जप्त्वा, तत्तध्दोमे दक्षिण प्रणिधावावाहनादि, कृत्वा, तत्तन्मंत्रं सवैष्णवं तत्तत्क्र्मेण षोडशाद्वा दशपर्यायतो जुहुयुः परिवाराणामालये प्रतिमाहीनं चेत् सभ्यन्गिकुंडे तत्तद्देवल्यं सवैष्णवं च हुत्वा, देवेशस्याऽऽवाहनान्ते तं कुम्भं नीत्वा, तत्तत्स्थानेपीठे तत्तद्देवं ध्यात्वा, आवाहयेत् ॥