पृष्ठम्:विमानार्चनाकल्पः.pdf/169

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलः 30 133

द्विप्रस्थपाकयोग्यांस्थार्ली, द्रोणार्धपूर्णाः पात्रिकाश्र्च, अन्यान् सर्वान खंडस्फुटितकालरहितान् समाहरेत् ।

                      अग्निमथनम्
    अथ अग्निमथनार्थं यज्ञागारेचाऽऽग्नेय्यां गोमयेनोपलिप्य, पञ्च-

वर्णैरलंकृत्य, (तन्मध्ये) मण्डलंकृत्वा, दर्भानास्तीर्य, तत्राऽरणिं प्राङ्- मुखंसन्यस्य अरण्यांमहीं, मन्थे विष्णुम् उत्तरेपट्टिकायामग्निमभ्यर्च्य, आचार्यः प्राङ्मुखः 'अग्नआयाहि' इत्यरणिं सन्यस्य, ‘आयुर्दा’ इति मन्थदण्डं संस्थाप्य, 'अग्निंदूत', मितिमन्थेरज्जुंसमावेष्ट्च, 'अग्निमूर्धे' ति उत्तरपट्टिकां संयोज्य, ‘जातवेदोभुवनस्ये' त्यग्निं मथित्वा उत्पन्नमग्निं ‘आयुर्दा' इति प्रणम्य, ‘उपावरोह' (वै० म० १-म०) इति गोकरीषै: समुज्वाल्य, 'घृतप्रतीक' (वै० म० १-म०) इति पात्रिकायायमादाय, ‘अग्निरिंद्रे' त्यभिवादनंकृत्वा, अप्रमादंनिधाय, स्यापनदिवसात्पूर्व रात्रादालयादुत्तरेच औपासनाग्निकुण्डंच- कृत्वा, आघारं हुत्वा सूत्रोक्तविधिनावास्तुहोमं हुत्वा, आघारंपर्यग्निंकृत्वा पञ्चगव्यै: ‘अणोरणीया' (तै० आ० ६-प्र०) नित्यभ्युक्ष्य पुण्याहं वाचयेत् ।

    इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे यागोपकरण

द्रव्यसंचयविधिर्नाम एकोनत्रिंशः पटलः॥२९॥


                     अथ त्रिंशः पटलः


                     अग्निकुण्डलक्षणम्
    अथाऽग्निकुण्डलक्षणं व्यख्यास्यामः- ब्रह्मा अग्निंपञ्चधासृष्ट्वा

पञ्चलोकेषु व्यभजत् । आहवनीयं स्वर्गलोके, अन्वाहर्यामन्तरिक्षलोके, अस्मिन्लोके गार्हपत्यम् आवसथ्यं महलोके, सभ्यंजनोलोके, इति चतुरश्रोवैस्वर्गलोक: आहवनीयम्, अंतरिक्षलोकोऽर्धचन्द्राकृतिस्त व्ददन्वाहार्यं, भूमिर्मण्डलाकृतिस्तद्वद्रहिपत्यं त्र्यश्रोवैमहर्लोकस्तद्वदावसथ्यं चतुरश्रोवैजनोलोकस्तद्वत्सभ्यं, पुण्डरीकवत्तपोलोकःकुर्यात् तद्वत् पौण्डरीकम् ।

    यज्ञशालां नवधाविभज्य मध्ये ब्राह्मेशय्यावेदिम्, ऐन्द्रपदेसभ्यम्